मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः
द्वितीयः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
भामतीव्याख्या
श्रुतोपनिषत्कगत्यभिधानाच्च ॥ १६ ॥
इत
श्चा
क्षिस्थानः
पुरुषः
परमेश्वरः
,
यस्माच्छ्रुतोपनिषत्कस्य
श्रुतरहस्यविज्ञानस्य
ब्रह्मविदो
या
गतिर्देवयानाख्या
प्रसिद्धा
श्रुतौ
—
‘
अ
थो
त्तरेण
तपसा
ब्रह्मचर्येण
श्रद्धया
विद्ययात्मानमन्विष्यादित्यमभिजयन्ते
।
एतद्वै
प्राणानामायतनमेतदमृतमभयमेतत्परायणमेतस्मान्न
पुनरावर्तन्ते
’ (प्र. उ. १ । १०)
इति
,
स्मृतावपि
—
‘
अग्निर्ज्योतिरहः
शुक्लः
षण्मासा
उत्तरायणम्
।
तत्र
प्रयाता
गच्छन्ति
ब्रह्म
ब्रह्मविदो
जनाः
’ (भ. गी. ८ । २४)
इति
,
सैवेहाक्षिपुरुषविदोऽभिधीयमाना
दृश्यते
। ‘
अथ
यदु
चैवास्मिञ्छव्यं
कुर्वन्ति
यदि
च
नार्चिषमेवाभिसम्भवन्ति
’
इत्युपक्रम्य
‘
आदित्याच्चन्द्रमसं
चन्द्रमसो
विद्युतं
तत्पुरुषोऽमानवः
स
एनान्ब्रह्म
गमयत्येष
देवपथो
ब्रह्मपथ
एतेन
प्रतिपद्यमाना
इमं
मानवमावर्तं
नावर्तन्ते
’ (छा. उ. ४ । १५ । ५)
इति
।
तदिह
ब्रह्मविद्विषयया
प्रसिद्धया
गत्या
अक्षिस्थानस्य
ब्रह्मत्वं
निश्चीयते
॥ १६ ॥
श्रुतोपनिषत्कगत्यभिधानाच्च
;
तदनेनोपाख्यानव्याख्यानेन
श्रुतोपनिषत्कगत्यभिधानाच्च
इत्यपि सूत्रं व्याख्यातम् ॥ १६ ॥