मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः
द्वितीयः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
भामतीव्याख्या
शारीरश्चोभयेऽपि हि भेदेनैनमधीयते ॥ २० ॥
नेति
पूर्वसूत्रादनुवर्तते
।
शारीरश्च
नान्तर्यामी
स्यात्
।
कस्मात्
?
यद्यपि
द्रष्टृत्वादयो
धर्मास्तस्य
सम्भवन्ति
,
तथापि
घटाकाशवदुपाधिपरिच्छिन्नत्वान्न
कार्त्स्न्येन
पृथिव्यादिष्वन्तरवस्थातुं
नियन्तुं
च
शक्नोति
।
अपि
चोभयेऽपि
हि
शाखिनः
काण्वा
माध्यन्दिनाश्चान्तर्यामिणो
भेदेनैनं
शारीरं
पृथिव्यादिवदधिष्ठानत्वेन
नियम्यत्वेन
चाधीयते
—
‘
यो
विज्ञाने
तिष्ठन्
’ (बृ. उ. ३ । ७ । २२)
इति
काण्वाः
। ‘
य
आत्मनि
तिष्ठन्
’
इति
माध्यन्दिनाः
। ‘
य
आत्मनि
तिष्ठन्
’
इत्यस्मिंस्तावत्
पाठे
भवत्यात्मशब्दः
शारीरस्य
वाचकः
। ‘
यो
विज्ञाने
तिष्ठन्
’
इत्यस्मिन्नपि
पाठे
विज्ञानशब्देन
शारीर
उच्यते
,
विज्ञानमयो
हि
शारीर
इति
।
तस्माच्छारीरादन्य
ईश्वरोऽन्तर्यामीति
सिद्धम्
।
कथं
पुनरेकस्मिन्देहे
द्वौ
द्रष्टारावुपपद्येते
यश्चायमीश्वरोऽन्तर्यामी
,
यश्चायमितरः
शारीरः
?
का
पुन
रि
हानुपपत्तिः
? ‘
नान्यो
ऽतोऽस्ति
द्रष्टा
’
इत्यादिश्रुतिवचनं
विरुध्येत
।
अत्र
हि
प्रकृतादन्तर्यामिणोऽन्यं
द्रष्टारं
श्रोतारं
मन्तारं
विज्ञातारं
चात्मानं
प्रतिषेधति
।
नियन्त्रन्तर
प्रतिषेधार्थमेतद्वचनमिति
चेत्
,
न
;
नियन्त्रन्तराप्रसङ्गा
दविशेष
श्रवणाच्च
।
अत्रोच्यते
—
अविद्याप्रत्युपस्थापितकार्यकरणोपाधिनिमित्तोऽयं
शारीरान्तर्यामिणोर्भेदव्यपदेशः
,
न
पारमार्थिकः
।
एको
हि
प्रत्यगात्मा
भवति
,
न
द्वौ
प्रत्यगात्मानौ
सम्भवतः
।
एकस्यैव
तु
भेदव्यवहार
उपाधिकृतः
,
यथा
घटाकाशो
महाकाश
इति
।
ततश्च
ज्ञातृज्ञेयादिभेदश्रुतयः
प्रत्यक्षादीनि
च
प्रमाणानि
संसारानुभवो
विधिप्रतिषेधशास्त्रं
चेति
सर्वमेतदुपपद्यते
।
तथा
च
श्रुतिः
— ‘
यत्र
हि
द्वैतमिव
भवति
तदितर
इतरं
पश्यति
’
इत्यविद्याविषये
सर्वं
व्यवहारं
दर्शयति
। ‘
यत्र
त्वस्य
सर्वमात्मैवाभूत्तत्केन
कं
पश्येत्
’
इति
विद्याविषये
सर्वं
व्यवहारं
वारयति
॥ २० ॥
दर्शनादिक्रियायाः कर्तरि प्रवृत्तिविरोधात्
;
दर्शनादिक्रियायाः कर्तरि प्रवृत्तिविरोधात् ।
कर्तरि आत्मनि प्रवृत्तिविरोधादित्यर्थः ॥ २० ॥