अदृश्यत्वादिगुणको धर्मोक्तेः ।
अथ परा यया तदक्षरमधिगम्यते ।
यत्तदद्रेश्यं बुद्धीन्द्रियाविषयः । अग्राह्यं कर्मेन्द्रियागोचरः । अगोत्रं कारणरहितम् । अवर्णं ब्राह्मणत्वादिहीनम् । न केवलमिन्द्रियाणामविषयः ।
इन्द्रियाण्यप्यस्य न सन्तीत्याह -
अचक्षुःक्षोत्रमिति ।
बुद्धीन्द्रियाण्युपलक्षयति । अपाणिपादमिति कर्मेन्द्रियाणि । नित्यं, विभुं, सर्वगतं सुसूक्ष्मं दुर्विज्ञानत्वात् ।
स्यादेतत् । नित्यं सत्किं परिणामि नित्यं, नेत्याह -
अव्ययम् ।
कूटस्थनित्यमित्यर्थः । “परिणामो विवर्तो वा सरूपस्योपलभ्यते । चिदात्मना तु सारूप्यं जडानां नोपपद्यते ॥ १ ॥ जडं प्रधानमेवातो जगद्योनिः प्रतीयताम् । योनिशब्दो निमित्तं चेत्कुतो जीवनिराक्रिया” ॥ २ ॥ परिणममानसरूपा एव परिणामा दृष्टाः । यथोर्णनाभिलालापरिणामा लूतातन्तवस्तत्सरूपाः, तथा विवर्ता अपि वर्तमानसरूपा एव न विरूपाः । यथा रज्जुविवर्ता धारोरगादयो रज्जुसरूपाः । न जातु रज्ज्वां कुञ्जर इति विपर्यस्यन्ति । नच हेमपिण्डपरिणामो भवति लूतातन्तुः । तत्कस्य हेतोः, अत्यन्तवैरूप्यात् । तस्मात्प्रधानमेव जडं जडस्य जगतो योनिरिति युज्यते । स्वविकारानश्रुत इति तदक्षरम् । “यः सर्वज्ञः सर्ववित्”(मु. उ. १ । १ । ९) इति चाक्षरात्परात्परस्याख्यानं, “अक्षरात्परतः परः” (मु. उ. २ । १ । २) इति श्रुतेः । नहि परस्मादात्मनोर्ऽवाग्विकरजातस्य च परस्तात्प्रधानादृतेऽन्यदक्षरं सम्भवति । अतो यः प्रधानात्परः परमात्मा स सर्ववित् । भूतयोनिस्त्वक्षरं प्रधानमेव, तच्च साङ्ख्याभिमतमेवास्तु । अथ तस्याप्रामाणिकत्वान्न तत्र परितुष्यति, अस्तु तर्हि नामरूपबीजशक्तिभूतमव्याकृतं भूतसूक्ष्मं, प्रधीयते हि तेन विकारजातमिति प्रधानं, तत्खलु जडमनिर्वाच्यमनिर्वाच्यस्य जडस्य प्रपञ्चस्योपादानं युज्यते, सारूप्यात् । ननु चिदात्मानिर्वाच्यः, विरूपो हि सः । अचेतनानामिति भाष्यं सारूप्यप्रतिपादनपरम् ।
स्यादेतत् । स्मार्तप्रधाननिराकरणेनैवैतदपि निराकृतप्रायं, तत्कुतोऽस्य शङ्केत्यत आह -
अपिच पूर्वत्रादृष्टत्वादीति ।
सति बाधकेऽस्यानाश्रयणं, इह तु बाधकं नास्तीत्यर्थः । तेन “तदैक्षत”(छा. उ. ६ । २ । ३) इत्यादावुपचर्यतां ब्रह्मणो जगद्योनिताऽविद्याशक्त्याश्रयत्वेन । इह त्वविद्याशक्तेरेव जगद्योनित्वसम्भवे न द्वाराद्वारिभावो युक्त इति प्रधानमेवात्र वाक्ये जगद्योनिरुच्यत इति पूर्वः पक्षः । अथ योनिशब्दो निमित्तकारणपरस्तथापि ब्रह्मैव निमित्तं न तु जीवात्मेति विनिगमनायां न हेतुरस्तीति संशयेन पूर्वः पक्षः । अत्रोच्यते - “अक्षरस्य जगद्योनिभावमुक्त्वा ह्यनन्तरम् । यः सर्वज्ञ इति श्रुत्या सर्वज्ञस्य स उच्यते ॥ १ ॥ तेन निर्देशसामान्यात्प्रत्यभिज्ञानतः स्फुटम् । अक्षरं सर्वविद्विश्वयोनिर्नाचेतनं भवेत् ॥ २ ॥ अक्षरात्परत इति श्रुतिस्त्वव्याकृते मता । अश्नुते यत्स्वकार्याणि ततोऽव्याकृतमक्षरम्” ॥ ३ ॥ नेह तिरोहितमिवास्ति किञ्चित् । यत्तु सारूप्याभावान्न चिदात्मनः परिणामः प्रपञ्च इति । अद्धा । “विवर्तस्तु प्रपञ्चोऽयं ब्रह्मणोपरिणामिनः । अनादिवासनोद्भूतो न सारूप्यमपेक्षते” ॥ १ ॥ न खलु बाह्यसारूप्यनिबन्धन एव सर्वो विभ्रम इति नियमनिमित्तमस्ति । आन्तरादपि कामक्रोधभयोन्मादस्वप्नादेर्मानसादपराधात्सारूप्यानपेक्षात्तस्य तस्य विभ्रमस्य दर्शनात् । अपिच हेतुमिति विभ्रमे तदभावादनुयोगो युज्यते । अनाद्यविद्यातद्वासनाप्रवाहपतितस्तु नानुयोगमर्हति । तस्मात्परमात्मविवर्ततया प्रपञ्चस्तद्योनिः, भुजङ्ग इव रज्जुविवर्ततया तद्योनिः, न तु तत्परिणामतया । तस्मात्तद्धर्मसर्ववित्त्वोक्तेर्लिङ्गात् “यत्तदद्रेश्यम्” (मु. उ. १ । १ । ६) इत्यत्र ब्रह्मैवोपदिश्यते ज्ञेयत्वेन, नतु प्रधानं जीवात्मा वोपास्यत्वेनेति सिद्धम् ।