ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भामतीव्याख्या
 
अदृश्यत्वादिगुणको धर्मोक्तेः ॥ २१ ॥
योऽयमदृश्यत्वादिगुणको भूतयोनिः, परमेश्वर एव स्यात् , नान्य इतिकथमेतदवगम्यते ? धर्मोक्तेःपरमेश्वरस्य हि धर्म इहोच्यमानो दृश्यते — ‘यः सर्वज्ञः सर्ववित्इति हि प्रधानस्याचेतनस्य शारीरस्य वोपाधिपरिच्छिन्नदृष्टेः सर्वज्ञत्वं सर्ववित्त्वं वा सम्भवतिन्वक्षरशब्दनिर्दिष्टाद्भूतयोनेः परस्यैव तत्सर्वज्ञत्वं सर्ववित्त्वं , भूतयोनिविषयमित्युक्तम्; अत्रोच्यतेनैवं सम्भवति; यत्कारणम्अक्षरात्सम्भवतीह विश्वम्इति प्रकृतं भूतयोनिमिह जायमानप्रकृतित्वेन निर्दिश्य, अनन्तरमपि जायमानप्रकृतित्वेनैव सर्वज्ञं निर्दिशति — ‘यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपःतस्मादेतद्ब्रह्म नाम रूपमन्नं जायतेइतितस्मान्निर्देशसाम्येन प्रत्यभिज्ञायमानत्वात्प्रकृतस्यैवाक्षरस्य भूतयोनेः सर्वज्ञत्वं सर्ववित्त्वं धर्म उच्यत इति गम्यते । ‘अक्षरात्परतः परःइत्यत्रापि प्रकृताद्भूतयोनेरक्षरात्परः कश्चिदभिधीयतेकथमेतदवगम्यते ? येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्’ (मु. उ. १ । २ । १३) इति प्रकृतस्यैवाक्षरस्य भूतयोनेरदृश्यत्वादिगुणकस्य वक्तव्यत्वेन प्रतिज्ञातत्वात्कथं तर्हिअक्षरात्परतः परःइति व्यपदिश्यत इति ? उत्तरसूत्रे तद्वक्ष्यामःअपि चात्र द्वे विद्ये वेदितव्ये उक्ते — ‘परा चैवापरा इतितत्रापरामृग्वेदादिलक्षणां विद्यामुक्त्वा ब्रवीतिअथ परा यया तदक्षरमधिगम्यतेइत्यादितत्र परस्या विद्याया विषयत्वेनाक्षरं श्रुतम्यदि पुनः परमेश्वरादन्यददृश्यत्वादिगुणकमक्षरं परिकल्प्येत, नेयं परा विद्या स्यात्परापरविभागो ह्ययं विद्ययोः अभ्युदयनिःश्रेयसफलतया परिकल्प्यते प्रधानविद्या निःश्रेयसफला केनचिदभ्युपगम्यतेतिस्रश्च विद्याः प्रतिज्ञायेरन्, त्वत्पक्षेऽक्षराद्भूतयोनेः परस्य परमात्मनः प्रतिपाद्यमानत्वात्द्वे एव तु विद्ये वेदितव्ये इह निर्दिष्टेकस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ (मु. उ. १ । १ । ३) इति चैकविज्ञानेन सर्वविज्ञानापेक्षणं सर्वात्मके ब्रह्मणि विवक्ष्यमाणेऽवकल्पते, नाचेतनमात्रैकायतने प्रधाने, भोग्यव्यतिरिक्ते वा भोक्तरिअपि ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वाय ज्येष्ठपुत्राय प्राह’ (मु. उ. १ । १ । १) इति ब्रह्मविद्यां प्राधान्येनोपक्रम्य परापरविभागेन परां विद्यामक्षराधिगमनीं दर्शयन् तस्या ब्रह्मविद्यात्वं दर्शयतिसा ब्रह्मविद्यासमाख्या तदधिगम्यस्य अक्षरस्याब्रह्मत्वे बाधिता स्यात्अपरा ऋग्वेदादिलक्षणा कर्मविद्या ब्रह्मविद्योपक्रमे उपन्यस्यते ब्रह्मविद्याप्रशंसायैप्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्मएतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति’ (मु. उ. १ । २ । ७) इत्येवमादिनिन्दावचनात्निन्दित्वा चापरां विद्यां ततो विरक्तस्य परविद्याधिकारं दर्शयतिपरीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेनतद्विज्ञानार्थं गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्’ (मु. उ. १ । २ । १२) इतियत्तूक्तम्अचेतनानां पृथिव्यादीनां दृष्टान्तत्वेनोपादानाद्दार्ष्टान्तिकेनाप्यचेतनेनैव भूतयोनिना भवितव्यमिति, तदयुक्तम्; हि दृष्टान्तदार्ष्टान्तिकयोरत्यन्तसाम्येन भवितव्यमिति नियमोऽस्तिअपि स्थूलाः पृथिव्यादयो दृष्टान्तत्वेनोपात्ता इति स्थूल एव दार्ष्टान्तिको भूतयोनिरभ्युपगम्यतेतस्माददृश्यत्वादिगुणको भूतयोनिः परमेश्वर एव ॥ २१ ॥

न केवलं लिङ्गादपि तु ‘परा विद्या’ इति समाख्यानादप्येतदेव प्रतिपत्तव्यमित्याह -

अपिच द्वे विद्ये इति ।

लिङ्गान्तरमाह -

कस्मिन्नु भवत इति ।

भोगा भोग्यास्तेभ्यो व्यतिरिक्ते भोक्तरि । अवच्छिन्नो हि जीवात्मा भोग्येभ्यो विषयेभ्यो व्यतिरिक्त इति तज्ज्ञानेन न सर्वं ज्ञातं भवति ।

समाख्यान्तरमाह -

अपिच स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामिति ।

प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशेति ।

प्लवन्ते गच्छन्ति अस्थायिन इति प्लवाः । अत एवादृढाः । के ते यज्ञरूपाः । रूप्यन्तेऽनेनेति रूपं, यज्ञो रूपमुपाधिर्येषां ते यज्ञरूपाः । ते तु षोडशर्त्विजः । ऋतुयजनेनोपाधिना ऋत्विक्शब्दः प्रवृत्त इति यज्ञोपाधय ऋत्विजः । एवं यजमानोऽपि यज्ञोपाधिरेव । एवं पत्नी, “पत्युर्नो यज्ञसंयोगे”(पा.सू.४-१-३३) इति स्मरणात् । त एतेऽष्टादश यज्ञरूपाः, येष्वृत्विगादिषूक्तं कर्म यज्ञः । यदाश्रयो यज्ञ इत्यर्थः । तच्च कर्मावरं स्वर्गाद्यवरफलत्वात् । अपियन्ति प्राप्नुवन्ति ।

नहि दृष्टान्तदार्ष्टान्तिकयोः

इत्युक्ताभिप्रायम् ॥ २१ ॥