न केवलं लिङ्गादपि तु ‘परा विद्या’ इति समाख्यानादप्येतदेव प्रतिपत्तव्यमित्याह -
अपिच द्वे विद्ये इति ।
लिङ्गान्तरमाह -
कस्मिन्नु भवत इति ।
भोगा भोग्यास्तेभ्यो व्यतिरिक्ते भोक्तरि । अवच्छिन्नो हि जीवात्मा भोग्येभ्यो विषयेभ्यो व्यतिरिक्त इति तज्ज्ञानेन न सर्वं ज्ञातं भवति ।
समाख्यान्तरमाह -
अपिच स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामिति ।
प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशेति ।
प्लवन्ते गच्छन्ति अस्थायिन इति प्लवाः । अत एवादृढाः । के ते यज्ञरूपाः । रूप्यन्तेऽनेनेति रूपं, यज्ञो रूपमुपाधिर्येषां ते यज्ञरूपाः । ते तु षोडशर्त्विजः । ऋतुयजनेनोपाधिना ऋत्विक्शब्दः प्रवृत्त इति यज्ञोपाधय ऋत्विजः । एवं यजमानोऽपि यज्ञोपाधिरेव । एवं पत्नी, “पत्युर्नो यज्ञसंयोगे”(पा.सू.४-१-३३) इति स्मरणात् । त एतेऽष्टादश यज्ञरूपाः, येष्वृत्विगादिषूक्तं कर्म यज्ञः । यदाश्रयो यज्ञ इत्यर्थः । तच्च कर्मावरं स्वर्गाद्यवरफलत्वात् । अपियन्ति प्राप्नुवन्ति ।
नहि दृष्टान्तदार्ष्टान्तिकयोः
इत्युक्ताभिप्रायम् ॥ २१ ॥