विशेषणभेदव्यपदेशाभ्यां च नेतरौ ।
विशेषणं हेतुं व्याचष्टे -
विशिनष्टि हीति ।
शारीरादित्युपलक्षणम् , प्रधानादित्यपि द्रष्टव्यम् ।
भेदव्यपदेशं व्याचष्टे -
तथा प्रधानादपीति ।
स्यादेतत् । किमागमिकं साङ्ख्याभिमतं प्रधानं, तथाच बहुसमञ्जसं स्यादित्यत आह -
नात्र प्रधानं नाम किञ्चिदिति ॥ २२ ॥