तदेतत्परमतेनाक्षेपसमाधानाभ्यां व्याख्याय स्वमतेन व्याचष्टे -
अन्ये पुनर्मन्यन्त इति ।
पुनःशब्दोऽपि पूर्वस्माद्विशेषं द्योतयन्नस्येष्टतां सूचयति । जायमानवर्गमध्यपतितस्याग्निमूर्धादिरूपवतः सति जायमानत्वसम्भवे नाकस्माज्जनकत्वकल्पनं युक्तम् । प्रकरणं खल्वेतद्विश्वयोनेः, संनिधिश्च जायमानानाम् । संनिधेश्च प्रकरणं बलीय इति जायमानपरित्यागेन विश्वयोनेरेव प्रकरणिनो रूपाभिधानमिति चेत् न, प्रकरणिनः शरीरेन्द्रियादिरहितस्य विग्रहवत्त्वविरोधात् । न चैतावता मूर्धादिश्रुतयः प्रकरणविरोधात्स्वार्थत्यागेन सर्वात्मतामात्रपरा इति युक्तम् , श्रुतेरत्यन्तविप्रकृष्टार्थात्प्रकरणाद्बलीयस्त्वात् । सिद्धे च प्रकरणिनासम्बन्धे जायमानमध्यपातित्वं जायमानग्रहणे कारणमुपन्यस्तं भाष्यकृता । तस्माद्धिरण्यगर्भ एव भगवान् प्राणात्मना सर्वभूतान्तरः कार्यो निर्दिश्यत इति साम्प्रतम् ।
तत्किमिदानीं सूत्रमनवधेयमेव, नेत्याह -
अस्मिन्पक्ष इति ।
प्रकरणात् ॥ २३ ॥