रूपोपन्यासाच्च ॥ २३ ॥
अन्ये पुनर्मन्यन्ते — नायं भूतयोनेः रूपोपन्यासः, जायमानत्वेनोपन्यासात् । ‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी’ इति हि पूर्वत्र प्राणादि पृथिव्यन्तं तत्त्वजातं जायमानत्वेन निरदिक्षत् । उत्तरत्रापि च ‘तस्मादग्निः समिधो यस्य सूर्यः’ इत्येवमादि ‘अतश्च सर्वा ओषधयो रसश्च’ इत्येवमन्तं जायमानत्वेनैव निर्देक्ष्यति । इहैव कथमकस्मादन्तराले भूतयोनेः रूपमुपन्यसेत् ? सर्वात्मत्वमपि सृष्टिं परिसमाप्योपदेक्ष्यति — ‘पुरुष एवेदं विश्वं कर्म’ (मु. उ. २ । १ । १०) इत्यादिना । श्रुतिस्मृत्योश्च त्रैलोक्यशरीरस्य प्रजापतेर्जन्मादि निर्दिश्यमानमुपलभामहे — ‘हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम’ (ऋ. सं. १० । १२१ । १) इति; समवर्ततेति अजायतेत्यर्थः — तथा, ‘स वै शरीरी प्रथमः स वै पुरुष उच्यते । आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत’ इति च । विकारपुरुषस्यापि सर्वभूतान्तरात्मत्वं सम्भवति, प्राणात्मना सर्वभूतानामध्यात्ममवस्थानात् । अस्मिन्पक्षे ‘पुरुष एवेदं विश्वं कर्म’ इत्यादिसर्वरूपोपन्यासः परमेश्वरप्रतिपत्तिहेतुरिति व्याख्येयम् ॥ २३ ॥