ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भामतीव्याख्या
 
वैश्वानरः साधारणशब्दविशेषात् ॥ २४ ॥
को आत्मा किं ब्रह्म’ (छा. उ. ५ । ११ । १) इति आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्रूहि’ (छा. उ. ५ । ११ । ६) इति चोपक्रम्य द्युसूर्यवाय्वाकाशवारिपृथिवीनां सुतेजस्त्वादिगुणयोगमेकैकोपासननिन्दया वैश्वानरं प्रत्येषां मूर्धादिभावमुपदिश्याम्नायतेयस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते, सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति;’ (छा. उ. ५ । १८ । १), तस्य वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा सन्देहो बहुलो वस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः’ (छा. उ. ५ । १८ । २) इत्यादितत्र संशयःकिं वैश्वानरशब्देन जाठरोऽग्निरुपदिश्यते, उत भूताग्निः, अथ तदभिमानिनी देवता, अथवा शारीरः, आहोस्वित्परमेश्वरः इतिकिं पुनरत्र संशयकारणम् ? वैश्वानर इति जाठरभूताग्निदेवतानां साधारणशब्दप्रयोगात् , आत्मेति शारीरपरमेश्वरयोःतत्र कस्योपादानं न्याय्यं कस्य वा हानमिति भवति संशयःकिं तावत्प्राप्तम् ? जाठरोऽग्निरितिकुतः ? तत्र हि विशेषेण क्वचित्प्रयोगो दृश्यतेअयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदिदमद्यते’ (बृ. उ. ५ । ९ । १) इत्यादौअग्निमात्रं वा स्यात् , सामान्येनापि प्रयोगदर्शनात्विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमह्नामकृण्वन्’ (ऋ. सं. १० । ८८ । १२) इत्यादौअग्निशरीरा वा देवता स्यात् , तस्यामपि प्रयोगदर्शनात्वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः’ (ऋ. सं. १ । ९८ । १) इत्येवमाद्यायाः श्रुतेर्देवतायामैश्वर्याद्युपेतायां सम्भवात्थात्मशब्दसामानाधिकरण्यादुपक्रमे को आत्मा किं ब्रह्मइति केवलात्मशब्दप्रयोगादात्मशब्दवशेन वैश्वानरशब्दः परिणेय इत्युच्यते, तथापि शारीर आत्मा स्यात्तस्य भोक्तृत्वेन वैश्वानरसन्निकर्षात् , प्रादेशमात्रमिति विशेषणस्य तस्मिन्नुपाधिपरिच्छिन्ने सम्भवात्तस्मान्नेश्वरो वैश्वानर इत्येवं प्राप्ते ततः

वैश्वानराधिकरणविषयाः

वैश्वानरः साधारणशब्दविशेषात् ।

प्राचीन शालसत्ययज्ञेन्द्रद्युम्नजनबुडिलाः समेत्य मीमांसां चक्रुः -

को न आत्मा किं ब्रह्मेति ।

आत्मेत्युक्ते जीवात्मनि प्रत्ययो मा भूदत उक्तं किं ब्रह्मेति । ते च मीमांसमाना निश्चयमनधिगच्छन्तः कैकेयराजं वैश्वानरविद्याविदमुपसेदुः ।

उपसद्य चोचुः -

आत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि

स्मरसि

तमेव नो ब्रूहीत्युपक्रम्य द्युसूर्वाय्वाकाशवारिपृथिवीनामिति ।

अयमर्थः - वैश्वानरस्य भगवतो द्यौर्मूर्धा सुतेजाः । चक्षुश्च विश्वरूपः सूर्यः । प्राणो वायुः पृथग्वर्त्मात्मा पृथक् वर्त्म यस्य वायोः स पृथग्वर्त्मा स एवात्मा स्वभावो यस्य स पृथग्वर्त्मात्मा । सन्देहो देहस्य मध्यभागः स आकाशो बहुलः सर्वगतत्वात् । बस्तिरेव रयिः आपः, यतोऽद्भ्योऽन्नमन्नाच्च रयिर्धनं तस्मादापो रयिरुक्तास्तासां च मूत्रीभूतानां बस्तिः स्थानमिति बस्तिरेव रयिरित्युक्तम् । पादौ पृथिवी तत्र प्रतिष्ठानात् । तदेवं वैश्वानरावयवेषु द्युसूर्यानिलाकाशजलावनिषु मूर्धचक्षुःप्राणसन्देहबस्तिपादेष्वेकैकस्मिन् वैश्वानरबुद्ध्या विपरीततयोपासकानां प्राचीनशालादीनां मूर्धपातान्धत्वप्राणोत्क्रमणदेहशीर्णताबस्तिभेदपादश्लथीभावदूषणैरुपासनानां निन्दया मूर्धादिसमस्तभावमुपदिश्याम्नायते “यस्त्वेतमेवं प्रादेशमात्रमभिविमानम्”(छा. उ. ५ । १८ । १) इति । स सर्वेषु लोकेषु द्युपृभृतिषु, सर्वेषु भूतेषु स्थावरजङ्गमेषु, सर्वेष्वात्मसु देहेन्द्रियमनोबुद्धिजीवेष्वन्नमत्ति । सर्वसम्बन्धिफलमाप्नोतीत्यर्थः ।

अथास्य वैश्वानरस्य भोक्तुर्भोजनस्याग्निहोत्रतासम्पिपादयिषयाह श्रुतिः -

उर एव वेदिः

वेदिसारूप्यात् ।

लोमानि बर्हिः

आस्तीर्णब्रहिःसारूप्यात् ।

हृदयं गार्हपत्यः ।

हृदयानन्तरं -

मनोऽन्वाहार्यपचनः ।

आस्यमाहवनीयः ।

तत्र हि तदन्नं हूयते । ननु “को न आत्मा किं ब्रह्म”(छा. उ. ५ । ११ । १) इत्युपक्रमे आत्मब्रह्मशब्दयोः परमात्मनि रूढत्वेन तदुपरक्तायां बुद्धौ वैश्वानराग्न्यादयः शब्दास्तदनुरोधेन परमात्मन्येव कथञ्चिन्नेतुं युज्यन्ते नतु प्रथमावगतौ ब्रह्मात्मशब्दौ चरमावगतवैश्वानरादिपदानुरोधेनान्यथयितुं युज्येते । यद्यपि च वाजसनेयिनां वैश्वानरविद्योपक्रमे “वैश्वानरं ह वै भगवान् सम्प्रति वेद तं नो ब्रूहि” इत्यत्र नात्मब्रह्मशब्दौ स्तः, तथापि तत्समानार्थं छान्दोग्यवाक्यं तदुपक्रममिति तेन निश्चितार्थेन तदविरोधेन वाजसनेयिवाक्यार्थो निश्चीयते । निश्चितार्थेन ह्यनिश्चितार्थं व्यवस्थाप्यते, नानिश्चितार्थेन निश्चितार्थम् । कर्मवच्च ब्रह्मापि सर्वशाखाप्रत्ययमेकमेव । नच द्युमूर्धत्वादिकं जाठरभूताग्निदेवताजीवात्मनामन्यतमस्यापि सम्भवति । नच सर्वलोकाश्रयफलभागिता ।