ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भामतीव्याख्या
 
शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न तथादृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते ॥ २६॥
अत्राह परमेश्वरो वैश्वानरो भवितुमर्हतिकुतः ? शब्दादिभ्योऽन्तःप्रतिष्ठानाच्चशब्दस्तावत्वैश्वानरशब्दो परमेश्वरे सम्भवति, अर्थान्तरे रूढत्वात्तथाग्निशब्दः एषोऽग्निर्वैश्वानरःइतिआदिशब्दात् हृदयं गार्हपत्यः’ (छा. उ. ५ । १८ । २) इत्याद्यग्नित्रेताप्रकल्पनम्; तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्’ (छा. उ. ५ । १९ । १) इत्यादिना प्राणाहुत्यधिकरणतासङ्कीर्तनम्एतेभ्यो हेतुभ्यो जाठरो वैश्वानरः प्रत्येतव्यःथान्तःप्रतिष्ठानमपि श्रूयते — ‘पुरुषेऽन्तः प्रतिष्ठितं वेदइतितच्च जाठरे सम्भवतियदप्युक्तम्मूर्धैव सुतेजाःइत्यादेर्विशेषात्कारणात्परमात्मा वैश्वानर इति, अत्र ब्रूमःकुतो ह्येष निर्णयः, यदुभयथापि विशेषप्रतिभाने सति परमेश्वरविषय एव विशेष आश्रयणीयो जाठरविषय इतिअथवा भूताग्नेरन्तर्बहिश्चावतिष्ठमानस्यैष निर्देशो भविष्यतितस्यापि हि द्युलोकादिसम्बन्धो मन्त्रवर्णादवगम्यतेयो भानुना पृथिवीं द्यामुतेमामाततान रोदसी अन्तरिक्षम्’ (ऋ. सं. १० । ८८ । ४) इत्यादौअथवा तच्छरीराया देवताया ऐश्वर्ययोगात् द्युलोकाद्यवयवत्वं भविष्यतितस्मान्न परमेश्वरो वैश्वानर इति

न च सर्वपाप्मप्रदाह इति पारिशेष्यात्परमात्मैव वैश्वानर इति निश्चिते कुतः पुनरियमाशङ्का -

शब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेदिति ।

उच्यते - तदेवोपक्रमानुरोधेनान्यथा नीयते, यन्नेतुं शक्यम् । अशक्यौ च वैश्वानराग्निशब्दावन्यथा नेतुमिति शङ्कितुरभिमानः । अपि चान्तःप्रतिष्ठितत्वं च प्रादेशमात्रत्वं च न सर्वव्यापिनोऽपरिमाणस्य च परब्रह्मणः सम्भवतः । नच प्राणाहुत्यधिकरणताऽन्यत्र जाठराग्नेर्युज्यते । नच गार्हपत्यादिहृदयादिता ब्रह्मणः सम्भविनी । तस्माद्यथायोगं जाठरभूताग्निदेवताजीवानामन्यतमो वैश्वानरः, नतु ब्रह्म । तथा च ब्रह्मात्मशब्दावुपक्रमगतावप्यन्यथा नेतव्यौ । मूर्धत्वादयश्च स्तुतिमात्रम् । अथवा अग्निशरीराया देवताया ऐश्वर्ययोगात् द्युमूर्धत्वादय उपपद्यन्त इति शङ्कितुरभिसन्धिः ।