ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भामतीव्याख्या
 
शब्दादिभ्योऽन्तःप्रतिष्ठानाच्च नेति चेन्न तथादृष्ट्युपदेशादसम्भवात्पुरुषमपि चैनमधीयते ॥ २६॥
अत्रोच्यते तथादृष्ट्युपदेशादिति शब्दादिभ्यः कारणेभ्यः परमेश्वरस्य प्रत्याख्यानं युक्तम्कुतः ? तथा जाठरापरित्यागेन, दृष्ट्युपदेशात्परमेश्वरदृष्टिर्हि जाठरे वैश्वानरे इहोपदिश्यतेमनो ब्रह्मेत्युपासीत’ (छा. उ. ३ । १८ । १) इत्यादिवत्अथवा जाठरवैश्वानरोपाधिः परमेश्वर इह द्रष्टव्यत्वेनोपदिश्यतेमनोमयः प्राणशरीरो भारूपः’ (छा. उ. ३ । १४ । २) इत्यादिवत्यदि चे परमेश्वरो विवक्ष्येत, केवल एव जाठरोऽग्निर्विवक्ष्येत, ततःमूर्धैव सुतेजाःइत्यादेर्विशेषस्यासम्भव एव स्यात्यथा तु देवताभूताग्निव्यपाश्रयेणाप्ययं विशेष उपपादयितुं शक्यते, तथोत्तरसूत्रे वक्ष्यामःयदि केवल एव जाठरो विवक्ष्येत, पुरुषेऽन्तःप्रतिष्ठितत्वं केवलं तस्य स्यात् तु पुरुषत्वम्पुरुषमपि चैनमधीयते वाजसनेयिनः एषोऽग्निर्वैश्वानरो यत्पुरुषः यो हैतमेवमग्निं वैश्वानरं पुरुषं पुरुषेऽन्तः प्रतिष्ठितं वेद’ (श. ब्रा. १० । ६ । १ । ११) इतिपरमेश्वरस्य तु सर्वात्मत्वात्पुरुषत्वं पुरुषेऽन्तःप्रतिष्ठितत्वं चोभयमुपपद्यतेये तुपुरुषविधमपि चैनमधीयतेइति सूत्रावयवं पठन्ति, तेषामेषोऽर्थःकेवलजाठरपरिग्रहे पुरुषेऽन्तःप्रतिष्ठितत्वं केवलं स्यात् तु पुरुषविधत्वम्पुरुषविधमपि चैनमधीयते वाजसनेयिनः — ‘पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेदइतिपुरुषविधत्वं प्रकरणात् यदधिदैवतं द्युमूर्धत्वादि पृथिवीप्रतिष्ठितत्वान्तम् , यच्चाध्यात्मं प्रसिद्धं मूर्धत्वादि चुबुकप्रतिष्ठितत्वान्तम् , तत्परिगृह्यते ॥ २६ ॥

अत्रोत्तरम् -

न ।

कुतः,

तथा दृष्ट्युपदेशात् ।

अद्धा चरममनन्यथासिद्धं प्रथमावगतमन्यथयति । न त्वत्र चरमस्यानन्यथासिद्धिः, प्रतीकोपदेशेन वा मनो ब्रह्मेतिवत् , तदुपाध्युपदेशेन वा मनोमयः प्राणशरीरो भारूप इतिवदुपपत्तेः । व्युत्पत्त्या वा वैश्वानराग्निशब्दयोर्ब्रह्मवचनत्वान्नान्यथासिद्धिः । तथाच ब्रह्माश्रयस्य प्रत्ययस्याश्रयान्तरे जाठरवैश्वानराह्वये क्षेपेण वा जाठरवैश्वानरोपाधिनि वा ब्रह्मण्युपास्ये वैश्वानरधर्माणां ब्रह्मधर्माणां च समावेश उपपद्यते ।

असम्भवादिति सूत्रावयवं व्याचष्टे -

यदि चेह परमेश्वरो न विवक्ष्येतेति ।

पुरुषमपि चैनमधीयत इति सूत्रावयवं व्याचष्टे -

यदि च केवल एवेति ।

न ब्रह्मोपाधितया नापि प्रतीकतयेत्यर्थः । न केवलमन्तःप्रतिष्ठितं पुरुषमपीत्यपेरर्थः । अत एव यत्पुरुष इति पुरुषमनूद्य न वैश्वानरो विधीयते । तथासति पुरुषे वैश्वानरदृष्टिरुपदिश्येत । एवं च परमेश्वरदृष्टिर्हि जाठरे वैश्वानर इहोपदिश्यत इति भाष्यं विरुध्येत । श्रुतिविरोधश्च । “स यो हैतमेवमग्निं वैश्वानरं पुरुषं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेद” इति वैश्वानरस्य हि पुरुषत्ववेदनमत्रानूद्यते, नतु पुरुषस्य वैश्वानरत्ववेदनम् । तस्मात् “स एषोऽग्निर्वैश्वानरो यत्” (श. ब्रा. १० । ६ । १ । ११) इति यदः पूर्वेण सम्बन्धः, पुरुष इति तु तत्र पुरुषदृष्टेरुपदेश इति युक्तम् ॥ २४ ॥ ॥ २५ ॥ ॥ २६ ॥