ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः द्वितीयः पादः
भामतीव्याख्या
 
अत एव न देवता भूतं च ॥ २७ ॥
यत्पुनरुक्तम्भूताग्नेरपि मन्त्रवर्णे द्युलोकादिसम्बन्धदर्शनात्मूर्धैव सुतेजाःइत्याद्यवयवकल्पनं तस्यैव भविष्यतीति, तच्छरीराया देवताया वा ऐश्वर्ययोगादिति; तत्परिहर्तव्यम्अत्रोच्यतेअत एवोक्तेभ्यो हेतुभ्यो देवता वैश्वानरःतथा भूताग्निरपि वैश्वानरः हि भूताग्नेरौष्ण्यप्रकाशमात्रात्मकस्य द्युमूर्धत्वादिकल्पनोपपद्यते, विकारस्य विकारान्तरात्मत्वासम्भवात्तथा देवतायाः सत्यप्यैश्वर्ययोगे द्युमूर्धत्वादिकल्पना सम्भवति, अकारणत्वात् परमेश्वराधीनैश्वर्यत्वाच्चआत्मशब्दासम्भवश्च सर्वेष्वेषु पक्षेषु स्थित एव ॥ २७ ॥

अत एव न देवता भूतं च ।

अत एवैतेभ्यः श्रुतिस्मृत्यवगतद्युमूर्धत्वादिसम्बन्धसर्वलोकाश्रयफलभागित्वसर्वपाप्मप्रदाहात्मब्रह्मपदोक्रमेभ्यो हेतुभ्य इत्यर्थः । “यो भानुना पृथिवीं द्यामुतेमाम्” (ऋ. सं. १० । ८८ । ३) इति मन्त्रवर्णोऽपि न केवलौष्ण्यप्रकाशविभवमात्रस्य भूताग्नेरिममीदृशं महिमानमाह, अपि तु ब्रह्मविकारतया ताद्रूप्येणेति भावः ॥ २७ ॥