अत्रोत्तरम् -
न ।
कुतः,
तथा दृष्ट्युपदेशात् ।
अद्धा चरममनन्यथासिद्धं प्रथमावगतमन्यथयति । न त्वत्र चरमस्यानन्यथासिद्धिः, प्रतीकोपदेशेन वा मनो ब्रह्मेतिवत् , तदुपाध्युपदेशेन वा मनोमयः प्राणशरीरो भारूप इतिवदुपपत्तेः । व्युत्पत्त्या वा वैश्वानराग्निशब्दयोर्ब्रह्मवचनत्वान्नान्यथासिद्धिः । तथाच ब्रह्माश्रयस्य प्रत्ययस्याश्रयान्तरे जाठरवैश्वानराह्वये क्षेपेण वा जाठरवैश्वानरोपाधिनि वा ब्रह्मण्युपास्ये वैश्वानरधर्माणां ब्रह्मधर्माणां च समावेश उपपद्यते ।
असम्भवादिति सूत्रावयवं व्याचष्टे -
यदि चेह परमेश्वरो न विवक्ष्येतेति ।
पुरुषमपि चैनमधीयत इति सूत्रावयवं व्याचष्टे -
यदि च केवल एवेति ।
न ब्रह्मोपाधितया नापि प्रतीकतयेत्यर्थः । न केवलमन्तःप्रतिष्ठितं पुरुषमपीत्यपेरर्थः । अत एव यत्पुरुष इति पुरुषमनूद्य न वैश्वानरो विधीयते । तथासति पुरुषे वैश्वानरदृष्टिरुपदिश्येत । एवं च परमेश्वरदृष्टिर्हि जाठरे वैश्वानर इहोपदिश्यत इति भाष्यं विरुध्येत । श्रुतिविरोधश्च । “स यो हैतमेवमग्निं वैश्वानरं पुरुषं पुरुषविधं पुरुषेऽन्तःप्रतिष्ठितं वेद” इति वैश्वानरस्य हि पुरुषत्ववेदनमत्रानूद्यते, नतु पुरुषस्य वैश्वानरत्ववेदनम् । तस्मात् “स एषोऽग्निर्वैश्वानरो यत्” (श. ब्रा. १० । ६ । १ । ११) इति यदः पूर्वेण सम्बन्धः, पुरुष इति तु तत्र पुरुषदृष्टेरुपदेश इति युक्तम् ॥ २४ ॥ ॥ २५ ॥ ॥ २६ ॥