मुक्तोपसृप्यव्यपदेशात् ।
द्युभ्वाद्यायतनं प्रकृत्याविद्यादिदोषमुक्तैरुपसृप्यं व्यपदिश्यते - “भिद्यते हृदयग्रन्थिः” ( मु.उ. २-२-९)इत्यादिना । तेन तत् द्युभ्वाद्यायतनविषयमेव । ब्रह्मणश्च मुक्तोपसृप्यत्वं “यदा सर्वे प्रमुच्यन्ते”(क. उ. २ । ३ । १४) इत्यादौ श्रुत्यन्तरे प्रसिद्धम् । तस्मान्मुक्तोपसृप्यत्वात् । द्युभ्वाद्यायतनं ब्रह्मेति निश्चीयते । हृदयग्रन्थिश्चाविद्यारागाद्वेषभयमोहाः । मोहश्च विषादः, शोकः । परं हिरण्यगर्भाद्यवरं यस्य तद्ब्रह्म तथोक्तम् । तस्मिन्ब्रह्मणि यद्दृष्टं दर्शनं तस्मिंस्तदर्थमिति यावत् । यथा ‘चर्मणि द्वीपिनं हन्ति’ इति चर्मार्थमिति गम्यते । नामरूपादित्यप्यविद्याभिप्रायम् ।
कामा येऽस्य हृदि श्रिता इति ।
कामा इत्यविद्यामुपलक्षयति ॥ २ ॥