ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
मुक्तोपसृप्यव्यपदेशात् ॥ २ ॥
इतश्च परमेव ब्रह्म द्युभ्वाद्यायतनम्; यस्मान्मुक्तोपसृप्यतास्य व्यपदिश्यमाना दृश्यतेमुक्तैरुपसृप्यं मुक्तोपसृप्यम्देहादिष्वनात्मसु अहमस्मीत्यात्मबुद्धिरविद्या, ततस्तत्पूजनादौ रागः, तत्परिभवादौ द्वेषः, तदुच्छेददर्शनाद्भयं मोहश्चइत्येवमयमनन्तभेदोऽनर्थव्रातः सन्ततः सर्वेषां नः प्रत्यक्षःतद्विपर्ययेणाविद्यारागद्वेषादिदोषमुक्तैरुपसृप्यं गम्यमेतदिति द्युभ्वाद्यायतनं प्रकृत्य व्यपदेशो भवतिकथम् ? भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाःक्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ (मु. उ. २ । २ । ९) इत्युक्त्वा, ब्रवीतितथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्’ (मु. उ. ३ । २ । ८) इतिब्रह्मणश्च मुक्तोपसृप्यत्वं प्रसिद्धं शास्त्रेयदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताःअथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते’ (बृ. उ. ४ । ४ । ७) इत्येवमादौप्रधानादीनां तु क्वचिन्मुक्तोपसृप्यत्वमस्ति प्रसिद्धम्अपि तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुःइति वाग्विमोकपूर्वकं विज्ञेयत्वमिह द्युभ्वाद्यायतनस्योच्यतेतच्च श्रुत्यन्तरे ब्रह्मणो दृष्टम्तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणःनानुध्यायाद्बहूञ्शब्दान्वाचो विग्लापनं हि तत्’ (बृ. उ. ४ । ४ । २१) इतितस्मादपि द्युभ्वाद्यायतनं परं ब्रह्म ॥ २ ॥

मुक्तोपसृप्यव्यपदेशात् ।

द्युभ्वाद्यायतनं प्रकृत्याविद्यादिदोषमुक्तैरुपसृप्यं व्यपदिश्यते - “भिद्यते हृदयग्रन्थिः” ( मु.उ. २-२-९)इत्यादिना । तेन तत् द्युभ्वाद्यायतनविषयमेव । ब्रह्मणश्च मुक्तोपसृप्यत्वं “यदा सर्वे प्रमुच्यन्ते”(क. उ. २ । ३ । १४) इत्यादौ श्रुत्यन्तरे प्रसिद्धम् । तस्मान्मुक्तोपसृप्यत्वात् । द्युभ्वाद्यायतनं ब्रह्मेति निश्चीयते । हृदयग्रन्थिश्चाविद्यारागाद्वेषभयमोहाः । मोहश्च विषादः, शोकः । परं हिरण्यगर्भाद्यवरं यस्य तद्ब्रह्म तथोक्तम् । तस्मिन्ब्रह्मणि यद्दृष्टं दर्शनं तस्मिंस्तदर्थमिति यावत् । यथा ‘चर्मणि द्वीपिनं हन्ति’ इति चर्मार्थमिति गम्यते । नामरूपादित्यप्यविद्याभिप्रायम् ।

कामा येऽस्य हृदि श्रिता इति ।

कामा इत्यविद्यामुपलक्षयति ॥ २ ॥