स्थित्यदनाभ्यां च ।
यदि जीवो हिरण्यगर्भो वा द्युभ्वाद्यायतनं भवेत् , ततस्तत्प्रकृत्या “अनश्नन्नन्योऽअभिचाकशीति”(मु. उ. ३ । १ । १) इति परमात्माभिधानमाकस्मिकं प्रसज्येत । नच हिरण्यगर्भ उदासीनः, तस्यापि भोक्तृत्वात् । नच जीवात्मैव द्युभ्वाद्यायतनं, तथा सति स एवात्र कथ्यते, तत्कथनाय च ब्रह्मापि कथ्यते, अन्यथा सिद्धान्तेऽपि जीवात्मकथनमाकस्मिकं स्यादिति वाच्यम् ।
यतोऽनधिगतार्थावबोधनस्वरसेनाम्नायेन प्राणभृन्मात्रप्रसिद्धजीवात्माधिगमायात्यन्तानवगतमलौकिकं ब्रह्मावबोध्यत इति सुभाषितम् -
यदापि पैङ्ग्युपनिषत्कृतेन व्याख्यानेनेति ।
तत्र हि “अनश्नन्नन्योऽअभिचाकशीति”(मु. उ. ३ । १ । १) इति जीव उपाधिरहितेन रूपेण ब्रह्मस्वभाव उदासीनोऽभोक्ता दर्शितः । तदर्थमेवाचेतनस्य बुद्धिसत्त्वस्यापारमार्थिकं भोक्तृत्वमुक्तम् । तथा चेत्थम्भूतं जीवं कथयतानेन मन्त्रवर्णेन द्युभ्वाद्यायतनं ब्रह्मैव कथितं भवति, उपाध्यवच्छिन्नश्च जीवः प्रतिषिद्धो भवतीति । न पैङ्गिब्राह्मणविरोध इत्यर्थः ।
प्रपञ्चार्थमिति ।
तन्मध्ये न पठितमिति कृत्वाचिन्तयेदमधिकरणं प्रवृत्तमित्यर्थः ॥ ७ ॥