सा च प्रशासनात् ॥ ११ ॥
सा च अम्बरान्तधृतिः परमेश्वरस्यैव कर्म । कस्मात् ? प्रशासनात् । प्रशासनं हीह श्रूयते — ‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ (बृ. उ. ३ । ८ । ९) इत्यादि । प्रशासनं च पारमेश्वरं कर्म । न अचेतनस्य प्रशासनं सम्भवति । न ह्यचेतनानां घटादिकारणानां मृदादीनां घटादिविषयं प्रशासनमस्ति ॥ ११ ॥