ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
अन्यभावव्यावृत्तेश्च ॥ १२ ॥
अन्यभावव्यावृत्तेश्च कारणाद्ब्रह्मैवाक्षरशब्दवाच्यम् , तस्यैवाम्बरान्तधृतिः कर्म, नान्यस्य कस्यचित्किमिदम् अन्यभावव्यावृत्तेरिति ? अन्यस्य भावोऽन्यभावः तस्माद्व्यावृत्तिः अन्यभावव्यावृत्तिरितिएतदुक्तं भवतियदन्यद्ब्रह्मणोऽक्षरशब्दवाच्यमिहाशङ्क्यते तद्भावात् इदमम्बरान्तविधारणमक्षरं व्यावर्तयति श्रुतिःतद्वा एतदक्षरं गार्गि अदृष्टं द्रष्टृ अश्रुतं श्रोतृ अमतं मन्तृ अविज्ञातं विज्ञातृ’ (बृ. उ. ३ । ८ । ११) इतितत्रादृष्टत्वादिव्यपदेशः प्रधानस्यापि सम्भवतिद्रष्टृत्वादिव्यपदेशस्तु सम्भवति, अचेतनत्वात्तथानान्यदतोऽस्ति द्रष्टृ, नान्यदतोऽस्ति श्रोतृ, नान्यदतोऽस्ति मन्तृ, नान्यदतोऽस्ति विज्ञातृइत्यात्मभेदप्रतिषेधात् , शारीरस्याप्युपाधिमतोऽक्षरशब्दवाच्यत्वम्; अचक्षुष्कमश्रोत्रमवागमनः’ (बृ. उ. ३ । ८ । ८) इति चोपाधिमत्ताप्रतिषेधात् हि निरुपाधिकः शारीरो नाम भवतितस्मात्परमेव ब्रह्माक्षरमिति निश्चयः ॥ १२ ॥

अन्यभावव्यावृत्तेश्च ।

अम्बरान्तविधरणस्याक्षरस्येश्वरागद्यदन्यद्वर्णा वा प्रधानं वाव्याकृतं वा तेषामन्येषां भावोऽन्यभावस्तमत्यन्तं व्यावर्तयति श्रुतिः - “तद्वा एतदक्षरं गार्गि”(बृ. उ. ३ । ८ । ११) इत्यादिका ।

अनेनैव सूत्रेण जीवस्याप्यक्षरता निषिद्धेत्यत आह -

तथेति ।

'नान्यत्” इत्यादिकया हि श्रुत्यात्मभेदः प्रतिषिध्यते । तथा चोपाधिभेदाद्भिन्ना जीवा निषिद्धा भवन्त्यभेदाभिधानादित्यर्थः ।

इतोऽपि न शारीरस्याक्षरशब्दतेत्याह -

अचक्षुष्कमिति ।

अक्षरस्य चक्षुराद्युपाधिं वारयन्ती श्रुतिरौपाधिकस्य जीवस्याक्षरतां निषेधतीत्यर्थः । तस्माद्वर्णप्रधानाव्याकृतजीवानामसम्भवात् , सम्भवाच्च परमात्मनः, परमात्मैवाक्षरमिति सिद्धम् ॥ १२ ॥