ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
ईक्षतिकर्मव्यपदेशात्सः ॥ १३ ॥
एतद्वै सत्यकाम परं चापरं ब्रह्म यदोंकारस्तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति’ (प्र. उ. ५ । २) इति प्रकृत्य श्रूयतेयः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत’ (प्र. उ. ५ । ५) इतिकिमस्मिन्वाक्ये परं ब्रह्माभिध्यातव्यमुपदिश्यते, आहोस्विदपरमितिएतेनैवायतनेन परमपरं वैकतरमन्वेतीति प्रकृतत्वात्संशयःतत्रापरमिदं ब्रह्मेति प्राप्तम्कस्मात् ? ‘ तेजसि सूर्ये सम्पन्नः’ ‘ सामभिरुन्नीयते ब्रह्मलोकम्इति तद्विदो देशपरिच्छिन्नस्य फलस्योच्यमानत्वात् हि परब्रह्मविद्देशपरिच्छिन्नं फलमश्नुवीतेति युक्तम्; सर्वगतत्वात्परस्य ब्रह्मणःन्वपरब्रह्मपरिग्रहेपरं पुरुषम्इति विशेषणं नोपपद्यतेनैष दोषःपिण्डापेक्षया प्राणस्य परत्वोपपत्तेः; इत्येवं प्राप्ते, अभिधीयते

ईक्षतिकर्माधिकरणविषयाः

ईक्षतिकर्मव्यपदेशात्सः ।

'कार्यब्रह्मजनप्राप्तिफलत्वादर्थभेदतः । दर्शनध्यानयोर्ध्येयमपरं ब्रह्म गम्यते” ॥ “ब्रह्म वेद ब्रह्मैव भवति”(मु. उ. ३ । २ । ९) इति श्रुतेः सर्वगतपरब्रह्मवेदने तद्भावापत्तौ “स सामभिरुन्नीयते ब्रह्मलोकम्”(प्र. उ. ५ । ५) इति न देशविशेषप्राप्तिरुपपद्यते । तस्मादपरमेव ब्रह्मेह ध्येयत्वेन चोद्यते । न चेक्षणस्य लोके तत्त्वविषयत्वेन प्रसिद्धेः परस्यैव ब्रह्मणस्तथाभावात् , ध्यायतेश्च तेन समानविषयत्वात् , परब्रह्मविषयमेव ध्यानमिति साम्प्रतम् , समानविषयत्वस्यैवासिद्धेः । परो हि पुरुषो ध्यानविषयः, परात्परस्तु दर्शनविषयः । नच तत्त्वविषयमेव सर्वं दर्शनं, अनृतविषयस्यापि तस्य दर्शनात् । नच मननं दर्शनं, तच्च तत्त्वविषयमेवेति साम्प्रतम् । मननाद्भेदेन तत्र तत्र दर्शनस्य निर्देशात् । नच मननमपि तर्कापरनामावश्यं तत्त्वविषयम् । यथाहुः - “तर्कोऽप्रतिष्ठः”(म.भा. ३-३१४-११९) इति । तस्मादपरमेव ब्रह्मेह ध्येयम् । तस्य च परत्वं शरीरापेक्षयेति । एवं प्राप्त उच्यते - “ईक्षणध्यानयोरेकः कार्यकारणभूतयोः । अर्थ औत्सर्गिकं तत्त्वविषयत्वं यथेक्षतेः” ॥ ध्यानस्य हि साक्षात्कारः फलम् । साक्षात्कारश्चोत्सर्गतस्तत्त्वविषयः । क्वचित्तु बाधकोपनिपाते समारोपितगोचरो भवेत् । न चासत्यपवादे शक्य उत्सर्गस्त्यक्तुम् । तथा चास्य तत्त्वविषयत्वात्तत्कारणस्य ध्यानस्यापि तत्त्वविषयत्वम् । अपिच वाक्यशेषेणैकवाक्यत्वसम्भवे न वाक्यभेदो युज्यते । सम्भवति च परपुरुषविषयत्वेनार्थप्रत्यभिज्ञानात्समभिव्याहाराच्चैकवाक्यता । तदनुरोधेन च परात्पर इत्यत्र परादिति जीवघनविषयं द्रष्टव्यम् । तस्मात्तु परः पुरुषो ध्यातव्यश्च द्रष्टव्यश्च भवति ।