ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
ईक्षतिकर्मव्यपदेशात्सः ॥ १३ ॥
परमेव ब्रह्म इह अभिध्यातव्यमुपदिश्यतेकस्मात् ? ईक्षतिकर्मव्यपदेशात्ईक्षतिर्दर्शनम्; दर्शनव्याप्यमीक्षतिकर्मईक्षतिकर्मत्वेनास्याभिध्यातव्यस्य पुरुषस्य वाक्यशेषे व्यपदेशो भवति — ‘ एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षतेइतितत्र अभिध्यायतेरतथाभूतमपि वस्तु कर्म भवति, मनोरथकल्पितस्याप्यभिध्यायतिकर्मत्वात्ईक्षतेस्तु तथाभूतमेव वस्तु लोके कर्म दृष्टम् , इत्यतः परमात्मैवायं सम्यग्दर्शनविषयभूत ईक्षतिकर्मत्वेन व्यपदिष्ट इति गम्यते एव चेह परपुरुषशब्दाभ्यामभिध्यातव्यः प्रत्यभिज्ञायतेन्वभिध्याने परः पुरुष उक्तः, ईक्षणे तु परात्परःकथमितर इतरत्र प्रत्यभिज्ञायत इतित्रोच्यतेपरपुरुषशब्दौ तावदुभयत्र साधारणौ चात्र जीवघनशब्देन प्रकृतोऽभिध्यातव्यः परः पुरुषः परामृश्यते; येन तस्मात् परात्परोऽयमीक्षितव्यः पुरुषोऽन्यः स्यात्कस्तर्हि जीवघन इति, उच्यतेघनो मूर्तिः, जीवलक्षणो घनः जीवघनःसैन्धवखिल्यवत् यः परमात्मनो जीवरूपः खिल्यभाव उपाधिकृतः, परश्च विषयेन्द्रियेभ्यः, सोऽत्र जीवघन इतिअपर आह — ‘ सामभिरुन्नीयते ब्रह्मलोकम्इत्यतीतानन्तरवाक्यनिर्दिष्टो यो ब्रह्मलोकः परश्च लोकान्तरेभ्यः, सोऽत्र जीवघन इत्युच्यतेजीवानां हि सर्वेषां करणपरिवृतानां सर्वकरणात्मनि हिरण्यगर्भे ब्रह्मलोकनिवासिनि सङ्घातोपपत्तेर्भवति ब्रह्मलोको जीवघनःतस्मात्परो यः परमात्मा ईक्षणकर्मभूतः, एवाभिध्यानेऽपि कर्मभूत इति गम्यते । ‘परं पुरुषम्इति विशेषणं परमात्मपरिग्रह एवावकल्पतेपरो हि पुरुषः परमात्मैव भवति यस्मात्परं किञ्चिदन्यन्नास्ति; ‘पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिःइति श्रुत्यन्तरात् । ‘परं चापरं ब्रह्म यदोंकारःइति विभज्य, अनन्तरमोंकारेण परं पुरुषमभिध्यातव्यं ब्रुवन् , परमेव ब्रह्म परं पुरुषं गमयति । ‘यथा पादोदरस्त्वचा विनिर्मुच्यत एवं वै पाप्मना विनिर्मुक्तःइति पाप्मविनिर्मोकफलवचनं परमात्मानमिहाभिध्यातव्यं सूचयतिअथ यदुक्तं परमात्माभिध्यायिनो देशपरिच्छिन्नं फलं युज्यत इति, अत्रोच्यतेत्रिमात्रेणोंकारेणालम्बनेन परमात्मानमभिध्यायतः फलं ब्रह्मलोकप्राप्तिः, क्रमेण सम्यग्दर्शनोत्पत्तिः, — इति क्रममुक्त्यभिप्रायमेतद्भविष्यतीत्यदोषः ॥ १३ ॥

तदिदमुक्तम् -

न चात्र जीवघनशब्देन प्रकृतोऽभिध्यातव्यः परः पुरुषः परामृश्यते ।

किन्तु जीवघनात्परात्परो यो ध्यातव्यो द्रष्टव्यश्च तमेव कथयितुं जीवघनो जीवः । खिल्यभावमुपाधिवशादापन्नः स उच्यते । “स सामभिरुन्नीयते ब्रह्मलोकम्”(प्र. उ. ५ । ५) इत्यनन्तरवाक्यनिर्दिष्टो ब्रह्मलोको वा जीवघनः । स हि समस्तकरणात्मनः सूत्रात्मनो हिरण्यगर्भस्य भगवतो निवासभूमितया करणपरिवृतानां जीवानां सङ्घात इति भवति जीवघनः । तदेवं त्रिमात्रोङ्कारायतनं परमेव ब्रह्मोपास्यम् । अत एव चास्य देशविशेषाधिगतिः फलमुपाधिमत्त्वात् , क्रमेण च सम्यग्दर्शनोत्पत्तौ मुक्तिः । “ब्रह्म वेद ब्रह्मैव भवति”(मु. उ. ३ । २ । ९) इति तु निरुपाधिब्रह्मवेदनविषया श्रुतिः । अपरं तु ब्रह्मैकैकमात्रायतनमुपास्यमिति मन्तव्यम् ॥ १३ ॥