दहर उत्तरेभ्यः ।
'अथ यदिदमस्मिन् ब्रह्मपुरे दहरम्” सूक्ष्मं गुहाप्रायं पुण्डरीकसंनिवेशं वेश्म “दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यम्”(छा. उ. ८ । १ । १) आगमाचार्योपदेशाभ्यां श्रवणं च, तदविरोधिना तर्केण मननं च, तदन्वेषणम् । तत्पूर्वकेण चादरनैरन्तर्यदीर्घकालासेवितेन ध्यानाभ्यासपरिपाकेन साक्षात्कारो विज्ञानम् । विशिष्टं हि तज्ज्ञानं पूर्वेभ्यः । तदिच्छा विजिज्ञासनम् ।
अत्र संशयमाह -
तत्रेति ।
तत्र प्रथमं तावदेवं संशयः - किं दहराकाशादन्यदेव किञ्चिदन्वेष्टव्यं विजिज्ञासितव्यं च उत दहराकाश इति । यदापि दहराकाशोऽन्वेष्टव्यस्तदापि किं भूताकाश आहो शारीर आत्मा किं वा परमात्मेति ।
संशयहेतुं पृच्छति -
कुत इति ।
तद्धेतुमाह -
आकाशब्रह्मपुरशब्दाभ्यामिति ।
तत्र प्रथमं तावद्भूताकाश एव दहर इति पूर्वपक्षयति -
तत्राकाशशब्दस्य भूताकाशे रूढत्वादिति ।
एष तु बहुतरोत्तरसन्दर्भविरोधात्तुच्छः पूर्वपक्ष इत्यपरितोषेण पक्षान्तरमालम्बते पूर्वपक्षी -
अथवा जीवो दहर इति प्राप्तम् ।
युक्तमित्यर्थः । तत्र “आधेयत्वाद्विशेषाच्च पुरं जीवस्य युज्यते । देहो न ब्रह्मणो युक्तो हेतुद्वयवियोगतः” ॥ असाधारण्येन हि व्यपदेशता भवन्ति । तद्यथा क्षितिजलपवनबीजादिसामग्रीसमवधानजन्माप्यङ्कुरः शालिबीजेन व्यपदिश्यते शाल्यङ्कुर इति । नतु क्षित्यादिभिः, तेषां कार्यान्तरेष्वपि साधारण्यात् । तदिह शरीरं ब्रह्मविकारोऽपि न ब्रह्मणा व्यपदेष्टव्यम् , ब्रह्मणः सर्वविकारकारणत्वेनातिसाधारण्यात् । जीवभेदधर्माधर्मोपार्जितं तदित्यसाधारणकारणत्वाज्जीवेन व्यपदिश्यत इति युक्तम् । अपिच ब्रह्मपुर इति सप्तम्यधिकरणे स्मर्यते, तेनाधेयेनानेन सम्बद्धव्यम् । नच ब्रह्मणः स्वे महिम्नि व्यवस्थितस्यानाधेयस्याधारसम्बन्धः कल्पते । जीवस्त्वाराग्रमात्र इत्याधेयो भवति । तस्माद्ब्रह्मशब्दो रूढिं परित्यज्य देहादिबृंहणतया जीवे यौगिके वा भाक्तो वा व्याख्येयः । चैतन्यं च भक्तिः । उपाधानानुपधाने तु विशेषः । वाच्यत्वं गम्यत्वम् ।
स्यादेतत् । जीवस्य पुरं भवतु शरीरं, पुण्डरीकदहरगोचरता त्वन्यस्य भविष्यति, वत्सराजस्य पुर इवोज्जयिन्यां मैत्रस्य सद्मेत्यत आह -
तत्र पुरस्वामिन इति ।
अयमर्थः - वेश्म खल्वधिकरणमनिर्दिष्टाधेयमाधेयविशेषापेक्षायां पुरस्वामिनः प्रकृतत्वात्तेनैवाधेयेन सम्बद्धं सदनपेक्षं नाधेयान्तरेण सम्बन्धं कल्पयति ।
ननु तथापि शरीरमेवास्य भोगायतनमिति को हृदयपुण्डरीकस्य विशेषो यत्तदेवास्य सद्मेत्यत आह -
मनौपाधिकश्च जीव इति ।
ननु मनोऽपि चलतया सकलदेहवृत्ति पर्यायेणेत्यत आह -
मनश्च प्रायेणेति ।
आकाशशब्दश्चारूपत्वादिना सामान्येन जीवे भाक्तः ।
अस्तु वा भूताकाश एवायमाकाशशब्दो “दहरोऽस्मिन्नन्तराकाशः”(छा. उ. ८ । १ । १) इति, तथाप्यदोष इत्याह -
न चात्र दहरस्याकाशस्यान्वेष्यत्वमिति ।
एवं प्राप्त उच्यते - भूताकाशस्य तावन्न दहरत्वं, “यावान्वायमाकाशस्तावानेषोऽन्तर्हृदय आकाशः” (छा. उ. ८ । १ । ३) इत्युपमानविरोधात् । तथाहि - “तेन तस्योपमेयत्वं रामरावणयुद्धवत् । अगत्या भेदमारोप्य गतौ सत्यां न युज्यते” ॥ अस्ति तु दहराकाशस्य ब्रह्मत्वेन भूताकाशाद्भेदेनोपमानस्य गतिः । न चानवच्छिन्नपरिमाणमवच्छिन्नं भवति । तथा सत्यवच्छेदानुपपत्तेः । न भूताकाशमानत्वं ब्रह्मणोऽत्र विधीयते, येन “ज्यायानाकाशात्”(श. ब्रा. १० । ६ । ३ । २) इति श्रुतिविरोधः स्यात् , अपि तु भूताकाशोपमानेन पुण्डरीकोपाधिप्राप्तं दहरत्वं निवर्त्यते ।