ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
दहर उत्तरेभ्यः ॥ १४ ॥
अत उत्तरं ब्रूमःपरमेश्वर एवात्र दहराकाशो भवितुमर्हति, भूताकाशो जीवो वाकस्मात् ? उत्तरेभ्यः वाक्यशेषगतेभ्यो हेतुभ्यःतथाहिअन्वेष्टव्यतयाभिहितस्य दहरस्याकाशस्यतं चेद्ब्रूयुःइत्युपक्रम्यकिं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यम्इत्येवमाक्षेपपूर्वकं प्रतिसमाधानवचनं भवति ब्रूयाद्यावान्वा’ (छा. उ. ८ । १ । २) अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते’ (छा. उ. ८ । १ । ३) इत्यादितत्र पुण्डरीकदहरत्वेन प्राप्तदहरत्वस्याकाशस्य प्रसिद्धाकाशौपम्येन दहरत्वं निवर्तयन् भूताकाशत्वं दहरस्याकाशस्य निवर्तयतीति गम्यतेयद्यप्याकाशशब्दो भूताकाशे रूढः, तथापि तेनैव तस्योपमा नोपपद्यत इति भूताकाशशङ्का निवर्तिता भवतिन्वेकस्याप्याकाशस्य बाह्याभ्यन्तरत्वकल्पितेन भेदेनोपमानोपमेयभावः सम्भवतीत्युक्तम्नैवं सम्भवतिअगतिका हीयं गतिः, यत्काल्पनिकभेदाश्रयणम्अपि कल्पयित्वापि भेदमुपमानोपमेयभावं वर्णयतः परिच्छिन्नत्वादभ्यन्तराकाशस्य बाह्याकाशपरिमाणत्वमुपपद्येतननु परमेश्वरस्यापि ज्यायानाकाशात्’ (श. ब्रा. १० । ६ । ३ । २) इति श्रुत्यन्तरात् नैवाकाशपरिमाणत्वमुपपद्यतेनैष दोषः; पुण्डरीकवेष्टनप्राप्तदहरत्वनिवृत्तिपरत्वाद्वाक्यस्य तावत्त्वप्रतिपादनपरत्वम्उभयप्रतिपादने हि वाक्यं भिद्येत कल्पितभेदे पुण्डरीकवेष्टित आकाशैकदेशे द्यावापृथिव्यादीनामन्तः समाधानमुपपद्यते । ‘एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पःइति चात्मत्वापहतपाप्मत्वादयश्च गुणा भूताकाशे सम्भवन्तियद्यप्यात्मशब्दो जीवे सम्भवति, तथापीतरेभ्यः कारणेभ्यो जीवाशङ्कापि निवर्तिता भवति ह्युपाधिपरिच्छिन्नस्याराग्रोपमितस्य जीवस्य पुण्डरीकवेष्टनकृतं दहरत्वं शक्यं निवर्तयितुम्ब्रह्माभेदविवक्षया जीवस्य सर्वगतत्वादि विवक्ष्येतेति चेत्; यदात्मतया जीवस्य सर्वगतत्वादि विवक्ष्येत, तस्यैव ब्रह्मणः साक्षात्सर्वगतत्वादि विवक्ष्यतामिति युक्तम्यदप्युक्तम् — ‘ब्रह्मपुरम्इति जीवेन पुरस्योपलक्षितत्वाद्राज्ञ इव जीवस्यैवेदं पुरस्वामिनः पुरैकदेशवर्तित्वमस्त्वितिअत्र ब्रूमःपरस्यैवेदं ब्रह्मणः पुरं सत् शरीरं ब्रह्मपुरमित्युच्यते, ब्रह्मशब्दस्य तस्मिन्मुख्यत्वात्तस्याप्यस्ति पुरेणानेन सम्बन्धः, उपलब्ध्यधिष्ठानत्वात् एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते’ (प्र. उ. ५ । ५) वा अयं पुरुषः सर्वासु पूर्षु पुरिशयः’ (बृ. उ. २ । ५ । १८) इत्यादिश्रुतिभ्यःअथवा जीवपुर एवास्मिन् ब्रह्म सन्निहितमुपलक्ष्यते, यथा सालग्रामे विष्णुः सन्निहित इति, तद्वत्तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ (छा. उ. ८ । १ । ६) इति कर्मणामन्तवत्फलत्वमुक्त्वा, ‘अथ इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामांस्तेषां सर्वेषु लोकेषु कामचारो भवतिइति प्रकृतदहराकाशविज्ञानस्यानन्तफलत्वं वदन् , परमात्मत्वमस्य सूचयतियदप्येतदुक्तम् दहरस्याकाशस्यान्वेष्टव्यत्वं विजिज्ञासितव्यत्वं श्रुतं परविशेषणत्वेनोपादानादिति; अत्र ब्रूमःयद्याकाशो नान्वेष्टव्यत्वेनोक्तः स्यात्यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशःइत्याद्याकाशस्वरूपप्रदर्शनं नोपपद्येतन्वेतदप्यन्तर्वर्तिवस्तुसद्भावप्रदर्शनायैव प्रदर्श्यते, ‘तं चेद्ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यम्इत्याक्षिप्य परिहारावसरे आकाशौपम्योपक्रमेण द्यावापृथिव्यादीनामन्तःसमाहितत्वदर्शनात्नैतदेवम्; एवं हि सति यदन्तःसमाहितं द्यावापृथिव्यादि, तदन्वेष्टव्यं विजिज्ञासितव्यं चोक्तं स्यात्तत्र वाक्यशेषो नोपपद्येत । ‘अस्मिन्कामाः समाहिताः’ ‘एष आत्मापहतपाप्माइति हि प्रकृतं द्यावापृथिव्यादिसमाधानाधारमाकाशमाकृष्यअथ इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान्इति समुच्चयार्थेन चशब्देनात्मानं कामाधारम् आश्रितांश्च कामान् विज्ञेयान् वाक्यशेषो दर्शयतितस्माद्वाक्योपक्रमेऽपि दहर एवाकाशो हृदयपुण्डरीकाधिष्ठानः सहान्तःस्थैः समाहितैः पृथिव्यादिभिः सत्यैश्च कामैर्विज्ञेय उक्त इति गम्यते चोक्तेभ्यो हेतुभ्यः परमेश्वर इति ॥ १४ ॥

अपिच सर्व एवोत्तरे हेतवो दहराकाशस्य भूताकाशत्वं व्यासेधन्तीत्याह -

न च कल्पितभेद इति ।

नापि दहराकाशो जीव इत्याह -

यद्यप्यात्मशब्द इति ।

'उपलब्धेरधिष्ठानं ब्रह्मणो देह इष्यते । तेनासाधारणत्वेन देहो ब्रह्मपुरं भवेत्” ॥ देहे हि ब्रह्मोपलभ्यत इत्यसाधारणतया देहो ब्रह्मपुरमिति व्यपदिश्यते, न तु ब्रह्मविकारतया । तथाच ब्रह्मशब्दार्थो मुख्यो भवति । अस्तु वा ब्रह्मपुरं जीवपुरं, तथापि यथा वत्सराजस्य पुरे उज्जयिन्यां मैत्रस्य सद्म भवति, एवं जीवस्य पुरे हृत्पुण्डरीकं ब्रह्मसदनं भविष्यति, उत्तरेभ्यो ब्रह्मलिङ्गेभ्यो ब्रह्मणोऽवधारणात् । ब्रह्मणो हि बाधके प्रमाणे बलीयसि जीवस्य च साधके प्रमाणे सति ब्रह्मलिङ्गानि कथञ्चिदभेदविवक्षया जीवे व्याख्यायन्ते । न चेह ब्रह्मणो बाधकं प्रमाणं, साधकं वास्ति जीवस्य । ब्रह्मपुरव्यपदेशश्चोपपादितो ब्रह्मोपलब्धिस्थानतया । अर्भकौकस्त्वं चोक्तम् । तस्मात्सति सम्भवे ब्रह्मणि, तल्लिङ्गानां नाब्रह्मणि व्याख्यानमुचितमिति ब्रह्मैव दहराकाशो न जीवभूताकाशाविति । श्रवणमननमनुविद्य ब्रह्मानुभूय चरणं चारस्तेषां कामेषु चरणं भवतीत्यर्थः ।

स्यादेतत् । दहराकाशस्यान्वेष्यत्वे सिद्धे तत्र विचारो युज्यते, नतु तदन्वेष्टव्यम् , अपितु तदाधारमन्यदेव किञ्चिदित्युक्तमित्यनुभाषते -

यदप्येतदिति ।

अनुभाषितं दूषयति -

अत्र ब्रूम इति ।

यद्याकाशाधारमन्यदन्वेष्टव्यं भवेत्तदेवोपरि व्युत्पादनीयं, आकाशव्युत्पादनं तु क्वोपयुज्यत इत्यर्थः ।

चोदयति -

नन्वेतदपीति ।

आकाशकथनमपि तदन्तर्वर्तिवस्तुसद्भावप्रदर्शनायैव ।

अथाकाशपरमेव कस्मान्न भवतीत्यत आह -

तं चेद्ब्रूयुरिति ।

आचार्येण हि “दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्”(छा. उ. ८ । १ । १) इत्युपदिष्टेऽन्तेवासिनाक्षिप्तम् - “किं तदत्र विद्यते यदन्वेष्टव्यम्”(छा. उ. ८ । १ । २) । पुण्डरीकमेव तावत्सूक्ष्मतरं, तदवरुद्धमाकाशं सूक्ष्मतमम् । तस्मिन्सूक्ष्मतमे किमपरमस्ति । नास्त्येवेत्यर्थः । तत्किमन्वेष्टव्यमिति । तदस्मिन्नाक्षेपे परिसमाप्ते समाधानावसर आचार्यस्याकाशोपमानोपक्रमं वचः - “उभे अस्मिन्द्यावापृथिवी समाहिते”(छा. उ. ८ । १ । ३) इति । तस्मात्पुण्डरीकावरुद्धाकाशाश्रये द्यावापृथिव्यावेवान्वेष्टव्ये उपदिष्टे, नाकाश इत्यर्थः ।

परिहरति -

नैतदेवम् ।

एवं हीति ।

स्यादेतत् । एवमेवैतत् ।

नो खल्वभ्युपगमा एव दोषत्वेन चोद्यन्त इत्यत आह -

तत्र वाक्यशेष इति ।

वाक्यशेषो हि दहराकाशात्मवेदनस्य फलवत्त्वं ब्रूते, यच्च फलवत्तत्कर्तव्यतया चोद्यते, यच्च कर्तव्यं तदिच्छतीति “तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्” (छा. उ. ८ । १ । १) इति तद्दहराकाशविषयमवतिष्ठते ।

स्यादेतत् । द्यावापृथिव्यावेवात्मानौ भविष्यतः, ताभ्यामेवात्मा लक्षयिष्यते, आकाशशब्दवत् । ततश्चाकाशाधारौ तावेव परामृश्यते इत्यत आह -

अस्मिन्कामाः समाहिताः

प्रतिष्ठिताः ।

एष आत्मापहतपाप्मेति ।

अनेन

प्रकृतं द्यावापृथिव्यादिसमाधानाधारमाकाशमाकृष्य ।

द्यावापृथिव्यभिधानव्यवहितमपीति शेषः ।

ननु सत्यकामज्ञानस्यैतत्फलं, तदनन्तरं निर्देशात् , न तु दहराकाशवेदनस्येत्यत आह -

समुच्चयार्थेन चशब्देनेति ।

'अस्मिन्कामाः” इति च ‘एषः’ इति चैकवचनान्तं न द्वे द्यावापृथिव्यौ पराम्रष्टुमर्हतीति दहराकाश एव पराम्रष्टव्य इति समुदायार्थः । तदनेन क्रमेण ‘तस्मिन्यदन्तः’ इत्यत्र तच्छब्दोऽनन्तरमप्याकाशमतिलङ्घ्य हृत्पुण्डरीकं परामृशतीत्युक्तं भवति । तस्मिन् हृत्पुण्डरीके यदन्तराकाशं तदन्वेष्टव्यमित्यर्थः ॥ १४ ॥