गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गं च ।
उत्तरेभ्य इत्यस्य प्रपञ्चः एतमेव दहराकाशं प्रक्रम्य बताहो कष्टमिदं वर्तते जन्तूनां तत्त्वावबोधविकलानां, यदेभिः स्वाधीनमपि ब्रह्म न प्राप्यते । तद्यथा चिरन्तननिरूढनिबिडमलपिहितानां कलधौतशकलानां पथि पतितानामुपर्युपरि सञ्चरद्भिरपि पान्थैर्धनायद्भिर्ग्रावखण्डनिवहविभ्रमेणैतानि नोपादियन्त इत्यभिसन्धिमती साद्भुतमिव सखेदमिव श्रुतः प्रवर्तते - “इमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति”(छा. उ. ८ । ३ । २) इति । स्वापकाले हि सर्व एवायं विद्वानविद्वांश्च जीवलोको हृत्पुण्डरीकाश्रयं दहराकाशाख्यं ब्रह्मलोकं प्राप्तोऽप्यनाद्यविद्यातमः पटलपिहितदृष्टितया ब्रह्मभूयमापन्नोऽहमस्मीति न वेद । सोऽयं ब्रह्मलोकशब्दस्तद्गतिश्च प्रत्यहं जीवलोकस्य दहराकाशस्यैव ब्रह्मरूपलोकतामाहतुः ।
तदेतदाह भाष्यकारः -
इतश्च परमेश्वर एव दहरो यस्माद्दहरवाक्यशेष इति ।
तदनेन गतिशब्दौ व्याख्यातौ ।
'तथाहि दृष्टम्” इति सूत्रावयवं व्याचष्टे -
तथाह्यहरहर्जीवानामिति ।
वेदे च लोके च दृष्टम् । यद्यपि सुषुप्तस्य ब्रह्मभावे लौकिकं न प्रमाणान्तरमस्ति, तथापि वैदिकीमेव प्रसिद्धिं स्थापयितुमुच्यते, ईदृशी नामेयं वैदिकी प्रसिद्धिर्यल्लोकेऽपि गीयत इति । यथा श्रुत्यन्तरे यथा च लोके तथेह ब्रह्मलोकशब्दोऽपीति योजना ।
'लिङ्गं च” इति सूत्रावयवव्याख्यानं चोद्यमुखेनावतारयति -
ननु कमलासनलोकमपीति ।
परिहरति -
गमयेद्यदि ब्रह्मणो लोक इति ।
अत्र तावन्निषादस्थपतिन्यायेन षष्ठीसमासात्कर्मधारयो बलीयानिति स्थितमेव, तथापीह षष्ठीसमासनिराकरणेन कर्मधारयसमासस्थापनाय लिङ्गमप्यधिकमस्तीति तदप्युक्तं सूत्रकारेण । तथाहि - लोकवेदप्रसिद्धाहरहर्ब्रह्मलोकप्राप्त्यभिधानमेव लिङ्गं कमलासनलोकप्राप्तेर्विपक्षादसम्भवाद्व्यावर्तमानं षष्ठीसमासाशङ्कां व्यावर्तयद्दहराकाशप्राप्तावेवावतिष्ठते, नच दहराकाशो ब्रह्मणो लोकः किन्तु तद्ब्रह्मेति ब्रह्म च तल्लोकश्चेति कर्मधारयः सिद्धो भवति । लोक्यत इति लोकः । हृत्पुण्डरीकस्थः खल्वयं लोक्यते । यत्खलु पुण्डरीकस्थमन्तःकरणं तस्मिन्विशुद्धे प्रत्याहृतेतरकरणानां योगिनां निर्मल इवोदके चन्द्रमसो बिम्बमतिस्वच्छं चैतन्यं ज्योतिःस्वरूपं ब्रह्मावलोक्यत इति ॥ १५ ॥