धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॥ १६ ॥
धृतेश्च हेतोः परमेश्वर एवायं दहरः । कथम् ? ‘दहरोऽस्मिन्नन्तराकाशः’ इति हि प्रकृत्य आकाशौपम्यपूर्वकं तस्मिन्सर्वसमाधानमुक्त्वा तस्मिन्नेव चात्मशब्दं प्रयुज्यापहतपाप्मत्वादिगुणयोगं चोपदिश्य तमेवानतिवृत्तप्रकरणं निर्दिशति — ‘अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेदाय’ (छा. उ. ८ । ४ । १) इति । तत्र विधृतिरित्यात्मशब्दसामानाधिकरण्याद्विधारयितोच्यते; क्तिचः कर्तरि स्मरणात् । यथोदकसन्तानस्य विधारयिता लोके सेतुः क्षेत्रसम्पदामसम्भेदाय, एवमयमात्मा एषामध्यात्मादिभेदभिन्नानां लोकानां वर्णाश्रमादीनां च विधारयिता सेतुः, असम्भेदाय असङ्करायेति । एवमिह प्रकृते दहरे विधारणलक्षणं महिमानं दर्शयति । अयं च महिमा परमेश्वर एव श्रुत्यन्तरादुपलभ्यते — ‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ इत्यादेः । तथान्यत्रापि निश्चिते परमेश्वरवाक्ये श्रूयते — ‘एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय’ इति । एवं धृतेश्च हेतोः परमेश्वर एवायं दहरः ॥ १६ ॥