प्रसिद्धेश्च ।
न चेयमाकाशशब्दस्य ब्रह्मणि लक्ष्यमाणविभुत्वादिगुणयोगाद्वृत्तिः साम्प्रतिकी, यथा रथाङ्गनामा चक्रवाक इति लक्षणा, किन्त्वत्यन्तनिरूढेति सूत्रार्थः । ये त्वाकाशशब्दो ब्रह्मण्यपि मुख्य एव नभोवदित्याचक्षते, तैः “अन्यायश्चानेकार्थत्वम्” इति च “अनन्यलभ्यः शब्दार्थः” इति च मीमांसकानां मुद्राभेदः कृतः । लभ्यते ह्याकाशशब्दाद्विभुत्वादिगुणयोगेनापि ब्रह्म । नच ब्रह्मण्येव मुख्यो नभसि तु तेनैव गुणयोगेन वर्त्स्यतीति वाच्यम् । लोकाधीनावधारणत्वेन शब्दार्थसम्बन्धस्य वैदिकपदार्थप्रत्ययस्य तत्पूर्वकत्वात् । ननु “यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः”(छा. उ. ८ । १ । ३) इति व्यतिरेकनिर्देशान्न लक्षणा युक्ता । नहि भवति गङ्गायाः कूलमिति विवक्षिते गङ्गाया गङ्गेति प्रयोगः तत्किमिदानीं “पौर्णमास्यां पौर्णमास्या यजेत” “अमावास्यायाममावास्यया” इत्यसाधुर्वैदिकः प्रयोगः । नच पौर्णमास्यमावास्यशब्दावग्नेयादिषु मुख्यौ । यच्चोक्तं यत्र शब्दार्थप्रतीतिस्तत्र लक्षणा, यत्र पुनरन्यार्थे निश्चिते शब्दप्रयोगस्तत्र वाचकत्वमेवेति, तदयुक्तम् । उभयस्यापि व्यभिचारात् । “सोमेन यजेत” इति शब्दादर्थः प्रतीयते । न चात्र कस्यचिल्लाक्षणिकत्वमृते वाक्यार्थात् । न च “य एवं विद्वान् पौर्णमासीं यजते य एवं विद्वानमावास्याम्” इत्यत्र पौर्णमास्यमावास्याशब्दौ न लाक्षणिकौ । तस्माद्यत्किञ्चिदेतदिति ॥ १७ ॥