अन्यभावव्यावृत्तेश्च ।
अम्बरान्तविधरणस्याक्षरस्येश्वरागद्यदन्यद्वर्णा वा प्रधानं वाव्याकृतं वा तेषामन्येषां भावोऽन्यभावस्तमत्यन्तं व्यावर्तयति श्रुतिः - “तद्वा एतदक्षरं गार्गि”(बृ. उ. ३ । ८ । ११) इत्यादिका ।
अनेनैव सूत्रेण जीवस्याप्यक्षरता निषिद्धेत्यत आह -
तथेति ।
'नान्यत्” इत्यादिकया हि श्रुत्यात्मभेदः प्रतिषिध्यते । तथा चोपाधिभेदाद्भिन्ना जीवा निषिद्धा भवन्त्यभेदाभिधानादित्यर्थः ।
इतोऽपि न शारीरस्याक्षरशब्दतेत्याह -
अचक्षुष्कमिति ।
अक्षरस्य चक्षुराद्युपाधिं वारयन्ती श्रुतिरौपाधिकस्य जीवस्याक्षरतां निषेधतीत्यर्थः । तस्माद्वर्णप्रधानाव्याकृतजीवानामसम्भवात् , सम्भवाच्च परमात्मनः, परमात्मैवाक्षरमिति सिद्धम् ॥ १२ ॥