अपिच सर्व एवोत्तरे हेतवो दहराकाशस्य भूताकाशत्वं व्यासेधन्तीत्याह -
न च कल्पितभेद इति ।
नापि दहराकाशो जीव इत्याह -
यद्यप्यात्मशब्द इति ।
'उपलब्धेरधिष्ठानं ब्रह्मणो देह इष्यते । तेनासाधारणत्वेन देहो ब्रह्मपुरं भवेत्” ॥ देहे हि ब्रह्मोपलभ्यत इत्यसाधारणतया देहो ब्रह्मपुरमिति व्यपदिश्यते, न तु ब्रह्मविकारतया । तथाच ब्रह्मशब्दार्थो मुख्यो भवति । अस्तु वा ब्रह्मपुरं जीवपुरं, तथापि यथा वत्सराजस्य पुरे उज्जयिन्यां मैत्रस्य सद्म भवति, एवं जीवस्य पुरे हृत्पुण्डरीकं ब्रह्मसदनं भविष्यति, उत्तरेभ्यो ब्रह्मलिङ्गेभ्यो ब्रह्मणोऽवधारणात् । ब्रह्मणो हि बाधके प्रमाणे बलीयसि जीवस्य च साधके प्रमाणे सति ब्रह्मलिङ्गानि कथञ्चिदभेदविवक्षया जीवे व्याख्यायन्ते । न चेह ब्रह्मणो बाधकं प्रमाणं, साधकं वास्ति जीवस्य । ब्रह्मपुरव्यपदेशश्चोपपादितो ब्रह्मोपलब्धिस्थानतया । अर्भकौकस्त्वं चोक्तम् । तस्मात्सति सम्भवे ब्रह्मणि, तल्लिङ्गानां नाब्रह्मणि व्याख्यानमुचितमिति ब्रह्मैव दहराकाशो न जीवभूताकाशाविति । श्रवणमननमनुविद्य ब्रह्मानुभूय चरणं चारस्तेषां कामेषु चरणं भवतीत्यर्थः ।
स्यादेतत् । दहराकाशस्यान्वेष्यत्वे सिद्धे तत्र विचारो युज्यते, नतु तदन्वेष्टव्यम् , अपितु तदाधारमन्यदेव किञ्चिदित्युक्तमित्यनुभाषते -
यदप्येतदिति ।
अनुभाषितं दूषयति -
अत्र ब्रूम इति ।
यद्याकाशाधारमन्यदन्वेष्टव्यं भवेत्तदेवोपरि व्युत्पादनीयं, आकाशव्युत्पादनं तु क्वोपयुज्यत इत्यर्थः ।
चोदयति -
नन्वेतदपीति ।
आकाशकथनमपि तदन्तर्वर्तिवस्तुसद्भावप्रदर्शनायैव ।
अथाकाशपरमेव कस्मान्न भवतीत्यत आह -
तं चेद्ब्रूयुरिति ।
आचार्येण हि “दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्”(छा. उ. ८ । १ । १) इत्युपदिष्टेऽन्तेवासिनाक्षिप्तम् - “किं तदत्र विद्यते यदन्वेष्टव्यम्”(छा. उ. ८ । १ । २) । पुण्डरीकमेव तावत्सूक्ष्मतरं, तदवरुद्धमाकाशं सूक्ष्मतमम् । तस्मिन्सूक्ष्मतमे किमपरमस्ति । नास्त्येवेत्यर्थः । तत्किमन्वेष्टव्यमिति । तदस्मिन्नाक्षेपे परिसमाप्ते समाधानावसर आचार्यस्याकाशोपमानोपक्रमं वचः - “उभे अस्मिन्द्यावापृथिवी समाहिते”(छा. उ. ८ । १ । ३) इति । तस्मात्पुण्डरीकावरुद्धाकाशाश्रये द्यावापृथिव्यावेवान्वेष्टव्ये उपदिष्टे, नाकाश इत्यर्थः ।
परिहरति -
नैतदेवम् ।
एवं हीति ।
स्यादेतत् । एवमेवैतत् ।
नो खल्वभ्युपगमा एव दोषत्वेन चोद्यन्त इत्यत आह -
तत्र वाक्यशेष इति ।
वाक्यशेषो हि दहराकाशात्मवेदनस्य फलवत्त्वं ब्रूते, यच्च फलवत्तत्कर्तव्यतया चोद्यते, यच्च कर्तव्यं तदिच्छतीति “तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्” (छा. उ. ८ । १ । १) इति तद्दहराकाशविषयमवतिष्ठते ।
स्यादेतत् । द्यावापृथिव्यावेवात्मानौ भविष्यतः, ताभ्यामेवात्मा लक्षयिष्यते, आकाशशब्दवत् । ततश्चाकाशाधारौ तावेव परामृश्यते इत्यत आह -
अस्मिन्कामाः समाहिताः
प्रतिष्ठिताः ।
एष आत्मापहतपाप्मेति ।
अनेन
प्रकृतं द्यावापृथिव्यादिसमाधानाधारमाकाशमाकृष्य ।
द्यावापृथिव्यभिधानव्यवहितमपीति शेषः ।
ननु सत्यकामज्ञानस्यैतत्फलं, तदनन्तरं निर्देशात् , न तु दहराकाशवेदनस्येत्यत आह -
समुच्चयार्थेन चशब्देनेति ।
'अस्मिन्कामाः” इति च ‘एषः’ इति चैकवचनान्तं न द्वे द्यावापृथिव्यौ पराम्रष्टुमर्हतीति दहराकाश एव पराम्रष्टव्य इति समुदायार्थः । तदनेन क्रमेण ‘तस्मिन्यदन्तः’ इत्यत्र तच्छब्दोऽनन्तरमप्याकाशमतिलङ्घ्य हृत्पुण्डरीकं परामृशतीत्युक्तं भवति । तस्मिन् हृत्पुण्डरीके यदन्तराकाशं तदन्वेष्टव्यमित्यर्थः ॥ १४ ॥