ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
अल्पश्रुतेरिति चेत्तदुक्तम् ॥ २१ ॥
यदप्युक्तम् — ‘दहरोऽस्मिन्नन्तराकाशःइत्याकाशस्याल्पत्वं श्रूयमाणं परमेश्वरे नोपपद्यते, जीवस्य तु आराग्रोपमितस्याल्पत्वमवकल्पत इति; तस्य परिहारो वक्तव्यःउक्तो ह्यस्य परिहारःपरमेश्वरस्याप्यापेक्षिकमल्पत्वमवकल्पत इति, अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च’ (ब्र. सू. १ । २ । ७) इत्यत्र; एवेह परिहारोऽनुसन्धातव्य इति सूचयतिश्रुत्यैव इदमल्पत्वं प्रत्युक्तं प्रसिद्धेनाकाशेनोपमिमानयायावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशःइति ॥ २१ ॥

अल्पश्रुतेरिति चेत्तदुक्तम् ।

निगदव्याख्यातेन भाष्येण व्याख्यातम् ॥ २१ ॥