अनुकृतेस्तस्य च ।
'अभानं तेजसो दृष्टं सति तेजोऽन्तरे यतः । तेजोधात्वन्तरं तस्मादनुकाराच्च गम्यते” ॥ बलीयसा हि सौरेण तेजसा मन्दं तेजश्चन्द्रतारकाद्यभिभूयमानं दृष्टं, न तु तेजसोऽन्येन । येऽपि पिधायकाः प्रदीपस्य गृहघटादयो न ते स्वभासा प्रदीपं भासयितुमीशते । श्रूयते च - “तस्य भासा सर्वमिदं विभाति”(मु. उ. २ । २ । ११) इति । सर्वशब्दः प्रकृतसूर्याद्यपेक्षः । न चातुल्यरूपेऽनुभानमित्यनुकारः सम्भवति । नहि गावो वराहमनुधावन्तीति कृष्णविहङ्गानुधावनमुपपद्यते गवाम् , अपि तु तादृशसूकरानुधावनम् । तस्माद्यद्यपि “यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतम्” (मु. उ. २ । २ । ५) इति ब्रह्म प्रकृतं, तथाप्यभिभवानुकारसामर्थ्यलक्षणेन लिङ्गेन प्रकरणबाधया तेजोधातुरवगम्यते, न तु ब्रह्म, लिङ्गानुपपत्तेः । तत्र तं तस्येति च सर्वनामपदानि प्रदर्शनीयमेवावम्रक्ष्यन्ति । नच तच्छब्दः पूर्वोक्तपरामर्शीति नियमः समस्ति । नहि “तेन रक्तं रागात्”(पा.सू. ४.२.१) “तस्यापत्यम्”(पा.सू. ४-१-९२) इत्यादौ पूर्वोक्तं किञ्चिदस्ति । तस्मात्प्रमाणान्तराप्रतीतमपि तेजोऽन्तरमलौकिकं शब्दादुपास्यत्वेन गम्यत इति प्राप्ते उच्यते - “ब्रह्मण्येव हि तल्लिङ्गं न तु तेजस्यलौकिके । तस्मान्न तदुपास्यत्वे ब्रह्म ज्ञेयं तु गम्यते” ॥ “तमेव भान्तत्”(मु. उ. २ । २ । ११) इत्यत्र किमलौकिकं तेजः कल्पयित्वा सूर्यादीनामनुभानमुपपद्यताम् , किंवा “भारूपः सत्यसङ्कल्पः” (छा. उ. ३ । १४ । २) इति श्रुत्यन्तरप्रसिद्धेन ब्रह्मणो भानेन सूर्यादीनां भानमुपपाद्यतामिति विशये न श्रुतसम्भवेऽश्रुतस्य कल्पना युज्यत इत्यप्रसिद्धं नालौकिकमुपास्यं तेजो युज्यते, अपि तु श्रुतिप्रसिद्धं ब्रह्मैव ज्ञेयमिति ।