ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
अनुकृतेस्तस्य च ॥ २२ ॥
प्राज्ञ एवायमात्मा भवितुमर्हतिकस्मात् ? अनुकृतेः; अनुकरणमनुकृतिःयदेतत्तमेव भान्तमनुभाति सर्वम्इत्यनुभानम् , तत्प्राज्ञपरिग्रहेऽवकल्पतेभारूपः सत्यसङ्कल्पः’ (छा. उ. ३ । १४ । २) इति हि प्राज्ञमात्मानमामनन्ति तु तेजोधातुं कञ्चित्सूर्यादयोऽनुभान्तीति प्रसिद्धम्समत्वाच्च तेजोधातूनां सूर्यादीनां तेजोधातुमन्यं प्रत्यपेक्षास्ति, यं भान्तमनुभायुः हि प्रदीपः प्रदीपान्तरमनुभातियदप्युक्तं समानस्वभावकेष्वनुकारो दृश्यत इतिनायमेकान्तो नियमःभिन्नस्वभावकेष्वपि ह्यनुकारो दृश्यते; यथा सुतप्तोऽयःपिण्डोऽग्न्यनुकृतिरग्निं दहन्तमनुदहति, भौमं वा रजो वायुं वहन्तमनुवहतीति । ‘अनुकृतेःइत्यनुभानमसुसूचत् । ‘तस्य इति चतुर्थं पादमस्य श्लोकस्य सूचयति । ‘तस्य भासा सर्वमिदं विभातिइति तद्धेतुकं भानं सूर्यादेरुच्यमानं प्राज्ञमात्मानं गमयतितद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्’ (बृ. उ. ४ । ४ । १६) इति हि प्राज्ञमात्मानमामनन्तितेजोन्तरेण सूर्यादितेजो विभातीत्यप्रसिद्धम् , विरुद्धं तेजोन्तरेण तेजोन्तरस्य प्रतिघातात्अथवा सूर्यादीनामेव श्लोकपरिपठितानामिदं तद्धेतुकं विभानमुच्यतेकिं तर्हि ? ‘सर्वमिदम्इत्यविशेषश्रुतेः सर्वस्यैवास्य नामरूपक्रियाकारकफलजातस्य या अभिव्यक्तिः, सा ब्रह्मज्योतिःसत्तानिमित्ता; यथा सूर्यादिज्योतिःसत्तानिमित्ता सर्वस्य रूपजातस्याभिव्यक्तिः, तद्वत् । ‘ तत्र सूर्यो भातिइति तत्रशब्दमाहरन्प्रकृतग्रहणं दर्शयतिप्रकृतं ब्रह्म यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतम्’ (मु. उ. २ । २ । ५) इत्यादिना; अनन्तरं हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम्तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुःइतिकथं तज्ज्योतिषां ज्योतिरित्यत इदमुत्थितम् — ‘ तत्र सूर्यो भातिइतियदप्युक्तम् सूर्यादीनां तेजसां भानप्रतिषेधस्तेजोधातावेवान्यस्मिन्नवकल्पते, सूर्य इवेतरेषामिति; तत्र तु एव तेजोधातुरन्यो सम्भवतीत्युपपादितम्ब्रह्मण्यपि चैषां भानप्रतिषेधोऽवकल्पतेयतःयदुपलभ्यते तत्सर्वं ब्रह्मणैव ज्योतिषोपलभ्यतेब्रह्म तु नान्येन ज्योतिषोपलभ्यते, स्वयंज्योतिःस्वरूपत्वात् , येन सूर्यादयस्तस्मिन्भायुःब्रह्म हि अन्यद्व्यनक्ति, तु ब्रह्मान्येन व्यज्यते, आत्मनैवायं ज्योतिषास्ते’ (बृ. उ. ४ । ३ । ६) अगृह्यो हि गृह्यते’ (बृ. उ. ४ । २ । ४) इत्यादिश्रुतिभ्यः ॥ २२ ॥

तदेतदाह -

प्राज्ञ एवात्मा भवितुमर्हति ।

विरोधमाह -

समत्वाच्चेति ।

ननु स्वप्रतिभाने सूर्यादयश्चाक्षुषं तेजोऽपेक्षन्ते । न ह्यन्धेनैते दृश्यन्ते । तथा तदेव चाक्षुषं तेजो बाह्यसौर्यादितेज आप्यायितं रूपादि प्रकाशयति नानाप्यायितम् , अन्धकारेऽपि रूपदर्शनप्रसङ्गादित्यत आह -

यं भान्तमनुभायुरिति ।

नहि तेजोन्तरस्य तेजोऽन्तरापेक्षां व्यासेधामः, किन्तु तद्भानमनुभानम् । नच लोचनभानमनुभान्ति सूर्यादयः ।

तदिदमुक्तम् -

नहि प्रदीप इति ।

पूर्वपक्षमनुभाष्य व्यभिचारमाह -

यदप्युक्तमिति ।

एतदुक्तं भवति - यदि स्वरूपसाम्याभावमभिप्रेत्यानुकारो निराक्रियते, तदा व्यभिचारः । अथ क्रियासाम्याभावं, सोऽसिद्धः । अस्ति हि वायुरजसोः स्वरूपविसदृशयोरपि नियतदिग्देशवहनक्रियासाम्यम् । वन्ह्ययः पिण्डयोस्तु यद्यपि दहनक्रिया न भिद्यते तथापि द्रव्यभेदेन क्रियाभेदं कल्पयित्वा क्रियासादृश्यं व्याख्येयम् ।

तदेवमनुकृतेरिति विभज्य तस्य चेति सूत्रावयवं विभजते -

तस्य चेति चतुर्थमिति ।

ज्योतिषां सूर्यादीनां ब्रह्म ज्योतिःप्रकाशकमित्यर्थः ।

तेजोऽन्तरेणानिन्द्रियभावमापन्नेन सूर्यादितेजो विभातीत्यप्रसिद्धम् । सर्वशब्दस्य हि स्वरसतो निःशेषाभिधानं वृत्तिः । सा तेजोधातावलौकिके रूपमात्रप्रकाशके सङ्कुचेत् । ब्रह्मणि तु निःशेषजगदवभासके न सर्वशब्दस्य वृत्तिः सङ्कुचतीति -

तत्रशब्दमाहरन्निति ।

सर्वत्र खल्वयं तत्रशब्दः पूर्वोक्तपरामर्शी । “तेन रक्तं रागात्”(पा.सू. ४.२.१) इत्यादावपि प्रकृतेः परस्मिन्प्रत्ययेऽर्थभेदेऽन्वाख्यायमाने प्रातिपदिकप्रकृत्यर्थस्य पूर्ववृत्तत्वमस्तीति तेनेति तत्परामर्शान्न व्यभिचारः । तथाच सर्वनामश्रुतिरेव ब्रह्मोपस्थापयति । तेन भवतु नाम प्रकरणाल्लिङ्गं बलीयः, श्रुतिस्तु लिङ्गाद्बलीयसीति श्रौतमिह ब्रह्मैव गम्यत इति ।

अपि चापेक्षितानपेक्षिताभिधानयोरपेक्षिताभिधानं युक्तं, दृष्टार्थत्वादित्याह -

अनन्तरं च हिरण्मये परे कोश इति ।

अस्मिन्वाक्ये ज्योतिषां ज्योतिरित्युक्तं, तत्र कथं तत्ज्योतिषां ज्योतिरित्यपेक्षायामिदमुपतिष्ठते -

न तत्र सूर्य इति ।

स्वातन्त्र्येण तूच्यमानेऽनपेक्षितं स्याददृष्टार्थमिति ।

ब्रह्मण्यपि चैषां भानप्रतिषेधोऽवकल्पत इति ।

अयमभिप्रायः - “न तत्र सूर्यो भाति”(मु. उ. २ । २ । ११) इति नेयं सतिसप्तमी, यतः सूर्यादीनां तस्मिन् सत्यभिभवः प्रतीयेत । अपि तु विषयसप्तमी । तेन न तत्र ब्रह्मणि प्रकाशयितव्ये सूर्यादयः प्रकाशकतया भान्ति, किन्तु ब्रह्मैव सूर्यादिषु प्रकाशयितव्येषु प्रकाशकत्वेन भाति ।

तच्च स्वयम्प्रकाशम् ,

अगृह्यो नहि गृह्यत इत्यादिश्रुतिभ्य इति ॥ २२ ॥