ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
अपि च स्मर्यते ॥ २३ ॥
अपि चेदृग्रूपत्वं प्राज्ञस्यैवात्मनः स्मर्यते भगवद्गीतासु तद्भासयते सूर्यो शशाङ्को पावकःयद्गत्वा निवर्तन्ते तद्धाम परमं मम’ (भ. गी. १५ । ६) इतियदादित्यगतं तेजो जगद्भासयतेऽखिलम्यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्’ (भ. गी. १५ । १२) इति ॥ २३ ॥

अपि च स्मर्यते ।

न तद्भासयत इति

ब्रह्मणोऽग्राह्यत्वमुक्तम् ।

यदादित्यगतम्

इत्यनेन तस्यैव ग्राहकत्वमुक्तमिति ॥ २३ ॥