शब्दादेव प्रमितः ।
'नाञ्जसा मानभेदोऽस्ति परस्मिन्मानवर्जिते । भूतभव्येशिता जीवे नाञ्जसी तेन संशयः” ॥ किमङ्गुष्ठमात्रश्रुत्यनुग्रहाय जीवोपासनापरमेतद्वाक्यमस्तु, तदनुरोधेन चेशानश्रुतिः कथञ्चिद्व्याख्यायताम् , आहोस्विदीशानश्रुत्यनुग्रहाय ब्रह्मपरमेतदस्तु, तदनुरोधेनाङ्गुष्ठमात्रश्रुतिः कथञ्चिन्नीयताम् । तत्रान्यतरस्यान्यतरानुरोधविषये प्रथमानुरोधो न्याय्य इत्यङ्गुष्ठश्रुत्यनुरोधेनेशानश्रुतिर्नेतव्या । अपिच युक्तं हृत्पुण्डरीकदहरस्थानत्वं परमात्मानः, स्थानभेदनिर्देशात् । तद्धि तस्योपलब्धिस्थानं, शालग्राम इव कमलनाभस्य भगवतः । नच तथेहाङ्गुष्ठमात्रश्रुत्या स्थानभेदो निर्दिष्टः परिमाणमात्रनिर्देशात् । नच “मध्य आत्मनि”(क.उ. २-४-१२) इत्यत्र स्थानभेदोऽवगम्यते । आत्मशब्दो ह्ययं स्वभाववचनो वा जीववचनो वा ब्रह्मवचनो वा स्यात् । तत्र स्वभावस्य स्वभवित्रधीननिरूपणतया स्वस्य च भवितुरनिर्देशान्न ज्ञायते कस्य मध्य इति । नच जीवपरयोरस्ति मध्यमञ्जसेति नैष स्थाननिर्देशो विस्पष्टः । स्पष्टस्तु परिमाणनिर्देशः । परिमाणभेदश्च परस्मिन्न सम्भवतीति जीवात्मैवाङ्गुष्ठमात्रः । स खल्वन्तःकरणाद्युपाधिकल्पितो भागः परमात्मनः । अन्तःकरणं च प्रायेण हृत्कमलकोशस्थानं, हृत्कमलकोशश्च मनुष्याणामङ्गुष्ठमात्र इति तदवच्छिन्नो जीवात्माप्यङ्गुष्ठमात्रः, नभ इव वंशपर्वावच्छिन्नमरत्निमात्रम् । अपि च जीवात्मनः स्पष्टमङ्गुष्ठमात्रत्वं स्मर्यते - “अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्” इति । नहि सर्वेशस्य ब्रह्मणो यमेन बलान्निष्कर्षः कल्पते । यमो हि जगौ “हरिगुरुवशगोऽस्मि न स्वतन्त्रः प्रभवति संयमने ममापि विष्णुः” (वि.पु. ३-७-१५)इति । तेनाङ्गुष्ठमात्रत्वस्य जीवे निश्चयादापेक्षिकं किञ्चिद्भूतभव्यं प्रति जीवस्येशानत्वं व्याख्येयम् ।
'एतद्वै तत्”
इति च प्रत्यक्षजीवरूपं परामृशति । तस्माज्जीवात्मैवात्रोपास्य इति प्राप्तम् । एवं प्राप्तेऽभिधीयते - “प्रश्नोत्तरत्वादीशानश्रवणस्याविशेषतः । जीवस्य ब्रह्मरूपत्वप्रत्यायनपरं वचः” ॥ इह हि भूतभव्यमात्रं प्रति निरङ्कुशमीशानत्वं प्रतीयते । प्राक् पृष्टं चात्र ब्रह्म “अन्यत्र धर्मादन्यत्राधर्मात्” (क. उ. १ । २ । १४) इत्यादिना । तदनन्तरस्य सन्दर्भस्य तत्प्रतिवचनतोचितेति “एतद्वै तत्” (क. उ. २ । १ । १३) इति ब्रह्माभिधानं युक्तम् । तथा चाङ्गुष्ठमात्रतया यद्यपि जीवेऽवगम्यते तथापि न तत्परमेतद्वाक्यं, किन्त्वङ्गुष्ठमात्रस्य जीवस्य ब्रह्मरूपताप्रतिपादनपरम् । एवं निरङ्कुशमीशानत्वं न सङ्कोचयितव्यम् । नच ब्रह्मप्रश्नोत्तरता हातव्या । तेन यथा “तत्त्वमसि”(छा. उ. ६ । ८ । ७) इति विज्ञानात्मनस्त्वम्पदार्थस्य तदिति परमात्मनैकत्वं प्रतिपाद्यते, तथेहाप्यङ्गुष्ठपरिमितस्य विज्ञानात्मन ईशानश्रुत्या ब्रह्मभावः प्रतिपाद्य इति युक्तम् ॥ २४ ॥