ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ २५ ॥
सर्वगतस्यापि परमात्मनो हृदयेऽवस्थानमपेक्ष्याङ्गुष्ठमात्रत्वमिदमुच्यते; आकाशस्येव वंशपर्वापेक्षमरत्निमात्रत्वम् ह्यञ्जसा अतिमात्रस्य परमात्मनोऽङ्गुष्ठमात्रत्वमुपपद्यते चान्यः परमात्मन इह ग्रहणमर्हति ईशानशब्दादिभ्य इत्युक्तम्ननु प्रतिप्राणिभेदं हृदयानामनवस्थितत्वात्तदपेक्षमप्यङ्गुष्ठमात्रत्वं नोपपद्यत इत्यत उत्तरमुच्यतेमनुष्याधिकारत्वादितिशास्त्रं ह्यविशेषप्रवृत्तमपि मनुष्यानेवाधिकरोति; शक्तत्वात् , अर्थित्वात् , अपर्युदस्तत्वात् उपनयनादिशास्त्राच्चइति वर्णितमेतदधिकारलक्षणे’ (जै. सू. ६ । १)मनुष्याणां नियतपरिमाणः कायः; औचित्येन नियतपरिमाणमेव चैषामङ्गुष्ठमात्रं हृदयम्अतो मनुष्याधिकारत्वाच्छास्त्रस्य मनुष्यहृदयावस्थानापेक्षमङ्गुष्ठमात्रत्वमुपपन्नं परमात्मनःयदप्युक्तम्परिमाणोपदेशात् स्मृतेश्च संसार्येवायमङ्गुष्ठमात्रः प्रत्येतव्य इति; त्प्रत्युच्यते — ‘ आत्मा तत्त्वमसिइत्यादिवत् संसारिण एव सतोऽङ्गुष्ठमात्रस्य ब्रह्मत्वमिदमुपदिश्यत इतिद्विरूपा हि वेदान्तवाक्यानां प्रवृत्तिःक्वचित्परमात्मस्वरूपनिरूपणपरा; क्वचिद्विज्ञानात्मनः परमात्मैकत्वोपदेशपरातदत्र विज्ञानात्मनः परमात्मनैकत्वमुपदिश्यते; नाङ्गुष्ठमात्रत्वं कस्यचित्एतमेवार्थं परेण स्फुटीकरिष्यतिअङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टःतं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येणतं विद्याच्छुक्रममृतम्’ (क. उ. २ । ३ । १७) इति ॥ २५ ॥

हृद्यपेक्षया तु मनुष्याधिकारत्वात् ।

सर्वगतस्यापि परब्रह्मणो हृदयेऽवस्थानमपेक्ष्येति

जीवाभिप्रायम् । न चान्यः परमात्मान इह ग्रहणमर्हतीति न जीवपरमेतद्वाक्यमित्यर्थः ।

मनुष्यानेवेति ।

त्रैवर्णिकानेव ।

अर्थित्वादिति ।

अन्तःसंज्ञानां मोक्षमाणानां च काम्येषु कर्मस्वधिकारं निषेधति ।

शक्तत्वादिति

तिर्यग्देवर्षीणामशक्तानामधिकारं निवर्तयति ।

उपनयनादिशास्त्राच्चेति

शूद्राणामनधिकारितां दर्शयति ।

यदप्युक्तं परिमाणोपदेशात्स्मृतेश्चेति ।

यद्येतत्परमात्मपरं किमिति तर्हि जीव इहोच्यते । ननु परमात्मैवोच्यताम् । उच्यते च जीवः, तस्माज्जीवपरमेवेति भावः ।

परिहरति -

तत्प्रत्युच्यत इति ।

जीवस्य हि तत्त्वं परमात्मभावः, तद्वक्तव्यम् , नच तज्जीवमनभिधाय शक्यं वक्तुमिति जीव उच्यत इत्यर्थः ॥ २५ ॥