हृद्यपेक्षया तु मनुष्याधिकारत्वात् ।
सर्वगतस्यापि परब्रह्मणो हृदयेऽवस्थानमपेक्ष्येति
जीवाभिप्रायम् । न चान्यः परमात्मान इह ग्रहणमर्हतीति न जीवपरमेतद्वाक्यमित्यर्थः ।
मनुष्यानेवेति ।
त्रैवर्णिकानेव ।
अर्थित्वादिति ।
अन्तःसंज्ञानां मोक्षमाणानां च काम्येषु कर्मस्वधिकारं निषेधति ।
शक्तत्वादिति
तिर्यग्देवर्षीणामशक्तानामधिकारं निवर्तयति ।
उपनयनादिशास्त्राच्चेति
शूद्राणामनधिकारितां दर्शयति ।
यदप्युक्तं परिमाणोपदेशात्स्मृतेश्चेति ।
यद्येतत्परमात्मपरं किमिति तर्हि जीव इहोच्यते । ननु परमात्मैवोच्यताम् । उच्यते च जीवः, तस्माज्जीवपरमेवेति भावः ।
परिहरति -
तत्प्रत्युच्यत इति ।
जीवस्य हि तत्त्वं परमात्मभावः, तद्वक्तव्यम् , नच तज्जीवमनभिधाय शक्यं वक्तुमिति जीव उच्यत इत्यर्थः ॥ २५ ॥