तदुपर्यपि बादरायणः सम्भवात् ।
देवर्षीणां ब्रह्मविज्ञानाधिकारचिन्ता समन्वयलक्षणेऽसङ्गतेत्यस्याः प्रासङ्गिकीं सङ्गतिं दर्शयितुं प्रसङ्गमाह -
अङ्गुष्ठमात्रश्रुतिरिति ।
स्यादेतत् । देवादीनां विविधविचित्रानन्दभोगभोगिनां वैराग्याभावान्नार्थित्वं ब्रह्मविद्यायामित्यत आह -
तत्रार्थित्वं तावन्मोक्षविषयमिति ।
क्षयातिशययोग्यस्य स्वर्गाद्युपभोगेऽपि भावादस्ति वैराग्यमित्यर्थः ।
ननु देवादीनां विग्रहाद्यभावेनेन्द्रियार्थसंनिकर्षजायाः प्रमाणादिवृत्तेरनुपपत्तेरविद्वत्तया सामर्थ्याभावेन नाधिकार इत्यत आह -
तदा सामर्थ्यमपि तेषामिति ।
यथा च मन्त्रादिभ्यस्तदवगमस्तथोपरिष्टादुपपादयिष्यते ।
ननु शूद्रवदुपनयनासम्भवेनाध्ययनाभावात्तेषामनधिकार इत्यत आह -
न चोपनयनशास्त्रेणेति ।
न खलु विधिवत् गुरुमुखाद्गृह्यमाणो वेदः फलवत्कर्मब्रह्मावबोधहेतुः, अपि त्वध्ययनोत्तरकालं निगमनिरुक्तव्याकरणादिविदितपदतदर्थसङ्गतेरधिगतशाब्दन्यायतत्त्वस्य पुंसः स्मर्यमाणः । स च मनुष्याणामिह जन्मनीव देवदीनां प्राचि भवे विधिवदधीत आम्नाय इह जन्मनि स्मर्यमाणः । अत एव स्वयं प्रतिभातो वेदः सम्भवतीत्यर्थः ।
न च कर्मानधिकारे ब्रह्मविद्यानधिकारो भवतीत्याह -
यदपि कर्मस्वनधिकारकारणमुक्तमिति ।
वस्वादीनां हि न वस्वाद्यन्तरमस्ति । नापि भृग्वादीनां भृग्वाद्यन्तरमस्ति । प्राचां वसुभृगुप्रभृतीनां क्षीणाधिकारत्वेनेदानीं देवर्षित्वाभावादित्यर्थः ॥ २६ ॥