विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ।
मन्त्रादिपदसमन्वयात्प्रतीयमानोऽर्थः प्रमाणान्तराविरोधे सत्युपेयः न तु विरोधे । प्रमाणान्तरविरुद्धं चेदं विग्रहवत्त्वादि देवतायाः । तस्मात् ‘यजमानः प्रस्तरः’ इत्यादिवदुपचरितार्थो मन्त्रादिर्व्याख्येयः । तथाच विग्रहाद्यभावाच्छब्दोपहितार्थोऽर्थोपहितो वा शब्दो देवतेत्यचेतनत्वान्न तस्याः क्वचिदप्यधिकार इति शङ्कार्थः ।
निराकरोति -
न ।
कस्मात् ।
अनेकरूपप्रतिपत्तेः ।
सैव कुत इत्यत आह -
दर्शनात्
श्रुतिषु स्मृतिषु च । तथाहि - एकस्यानेककायनिर्माणमदर्शनाद्वा न युज्यते, बाधदर्शनाद्वा । तत्रादर्शनमसिद्धं, श्रुतिस्मृतिभ्यां दर्शनात् । नहि लौकिकेन प्रमाणेनादृष्टत्वादागमेन दृष्टमदृष्टं भवति, मा भूद्यागादीनामपि स्वर्गादिसाधनत्वमदृष्टमिति मनुष्यशरीरस्य मातापितृसंयोगजत्वनियमादसति पित्रोः संयोगे कुतः सम्भवः, सम्भवे वानग्नितोऽपि धूमः स्यादिति बाधदर्शनमिति चेत् । हन्त किं शरीरत्वेन हेतुना देवादिशरीरमपि मातापितृसंयोगजं सिषाधयिषसि । तथा चानेकान्तो हेत्वाभासः, स्वेदजोद्भिज्जानां शरीराणामतद्धेतुत्वात् । इच्छामात्रनिर्माणत्वं देहादीनामदृष्टचरमिति चेत् , न । भूतोपादानत्वेनेच्छामात्रनिर्माणत्वासिद्धेः । भूतवशिनां हि देवादीनां नानाकायचिकीर्षावशाद्भूतक्रियोत्पत्तौ भूतानां परस्परसंयोगेन नानाकायसमुत्पादात् । दृष्टा च वशिन इच्छावशाद्वश्ये क्रिया, यथा विषविद्याविद इच्छामात्रेण विषशकलप्रेरणम् । नच विषविद्याविदो दर्शनेनाधिष्ठानदर्शनाद्व्यवहितविप्रकृष्टभूतादर्शनाद्देवादीनां कथमधिष्ठानमिति वाच्यम् । काचाभ्रपटलपिहितस्य विप्रकृष्टस्य च भौमशनैश्चरादेर्दर्शनेन व्यभिचारात् । असक्ताश्च दृष्टयो देवादीनां काचाभ्रपटलादिवन्महीमहीधरादिभिर्न व्यवधीयन्ते । न चास्मदादिवत्तेषां शरीरित्वेन व्यवहिताविप्रकृष्टादिदर्शनासम्भवोऽनुमीयत इति वाच्यम् , आगमविरोधिनोऽनुमानस्योत्पादायोगात् । अन्तर्धानं चाञ्जनादिना मनुजानामिव तेषां प्रभवतामुपपद्यते, तेन संनिहितानामपि न क्रतुदेशे दर्शनं भविष्यति ।
तस्मात्सूक्तम् - अनेकप्रतिपत्तेरिति -
तथा हि कति देवा इत्युपक्रम्येति ।
वैश्वदेवशस्त्रस्य हि निविदि ‘कति देवाः’ इत्युपक्रम्य निविदैवोत्तरं दत्तं शाकल्याय याज्ञवल्क्येन -
त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ।
निविन्नाम शस्यमानदेवतासङ्ख्यावाचकानि मन्त्रपदानि । एतदुक्तं भवति - वैश्वदेवस्य निविदि कति देवाः शस्यमानाः प्रसङ्ख्याता इति शाकल्येन पृष्टे याज्ञवल्क्यस्योत्तरं - “त्रयश्च त्री च शता”(बृ. उ. ३ । ९ । १) इत्यादि । यावत्सङ्ख्याका वैश्वदेवनिविदि सङ्ख्याता देवास्त एतावन्त इति ।
पुनश्च शाकल्येन “कतमे ते” (बृ. उ. ३ । ९ । १) इति सङ्ख्येयेषु पृष्टेषु याज्ञवल्क्यस्योत्तरम् -
महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति ।
अष्टौ वसव एकादश रुद्रा द्वादशादित्या इन्द्रश्च प्रजापतिश्चेति त्रयस्त्रिंशद्देवाः । तत्राग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च द्यौश्च चन्द्रमाश्च नक्षत्राणि चेति वसवः । एते हि प्राणिनां कर्मफलाश्रयेण कार्यकारणसङ्घातरूपेण परिणमन्तो जगदिदं सर्वं वासयन्ति, तस्माद्वसवः । कतमे रुद्रा इति दशेमे पुरुषे प्राणाः बुद्धिकर्मेन्द्रियाणि दश, एकादशं च मन इति । तदेतानि प्राणाः, तद्वृत्तित्वात् । ते हि प्रायणकाल उत्क्रामन्तः पुरुषं रोदयन्तीति रुद्राः । कतम आदित्या इति द्वादशमासाः संवत्सरस्यावयवाः पुनः पुनः परिवर्तमानाः प्राणभृतामायूंषि च कर्मफलोपभोगं चादापयन्तीत्यादित्याः । अशनिरिन्द्रः, सा हि बलं, सा हीन्द्रस्य परमा ईशता, तया हि सर्वान्प्राणिनः प्रमापयति, तेन स्तनयित्नुरशनिरिन्द्रः । यज्ञः प्रजापतिरिति, यज्ञसाधनं च यज्ञरूपं च पशवः प्रजापतिः । एत एव त्रयस्त्रिंशद्देवाः षण्णामग्निपृथिवीवाय्वन्तरिक्षादित्यदिवां महिमानो न ततो भिद्यन्ते । षडेव तु देवाः । ते तु षडग्निं पृथिवीं चैकीकृत्यान्तरिक्षं वायुं चैकीकृत्य दिवं चादित्यं चैकीकृत्य त्रयो लोकास्त्रय एव देवा भवन्ति । एत एव च त्रयोऽन्नप्राणयोरन्तर्भवन्तोऽन्नप्राणौ द्वौ देवौ भवतः । तावप्यध्यर्धो देव एकः । कतमोऽध्यर्धः, योऽयं वायुः पवते । कथमयमेक एवाध्यर्धः, यदस्मिन्सति सर्वमिदमध्यर्धं वृद्धिं प्राप्नोति तेनाध्यर्ध इति । कतम एक इति, स एवाध्यर्धः प्राण एको ब्रह्म । सर्वदेवात्मत्वेन बृहत्त्वाद्ब्रह्म तदेव स्यादित्याचक्षते परोक्षाभिधायकेन शब्देन । तस्मादेकस्यैव देवस्य महिमवशाद्युगपदनेकदेवरूपतामाह श्रुतिः । स्मृतिश्च निगदव्याख्याता ।
अपि च पृथग्जनानामप्युपायानुष्ठानवशात्प्राप्ताणिमाद्यैश्वर्याणां युगपन्नानाकायनिर्माणं श्रूयते, तत्र कैव कथा देवानां स्वभावसिद्धानामित्याह -
प्राप्ताणिमाद्यैश्वर्याणां योगिनामिति ।
अणिमा लघिमा महिमा प्राप्तिः प्राकाम्यमीशित्वं वशित्वं यत्रकामावसायितेत्यैश्वर्याणि ।
अपरा व्याख्येति ।
अनेकत्र कर्मणि युगपदङ्गभावप्रतिपत्तिरङ्गभावगमनं, तस्य दर्शनात् ।
तदेव परिस्फुटं दर्शयितुं व्यतिरेकं तावदाह -
क्वचिदेक इति ।
न खलु बहुषु श्राद्धेष्वेको ब्राह्मणो युगपदङ्गभावं गन्तुमर्हति ।
एकस्यानेकत्र युगपदङ्गभावमाह -
क्वचिच्चैक इति ।
यथैकं ब्राह्मणमुद्दिश्य युगपन्नमस्कारः क्रियते बहुभिस्तथा स्वस्थानस्थितामेकां देवतामुद्दिश्य बहुभिर्यजमानैर्नानादेशावस्थितैर्युगपद्धविस्त्यज्यते, तस्याश्च तत्रासंनिहिताया अप्यङ्गभावो भवति । अस्ति हि तस्या युगपद्विप्रकृष्टानेकार्थोपलम्भसामर्थ्यमित्युपपादितम् ॥ २७ ॥