न चैतावता शब्दार्थसम्बन्धस्यानित्यत्वं, वस्वादिजातेर्वा तदुपाधेर्वा यया कयाचिदाकृत्यावच्छिन्नस्य नित्यत्वादिति । इममेवार्थमाक्षेपसमाधानाभ्यां विभजते -
ननु जन्माद्यस्य यत इति ।
ते निगदव्याख्याते ।
तत्किमिदानीं स्वयम्भुवा वाङ्निर्मिता कालिदासादिभिरिव कुमारसम्भवादि, तथाच तदेव प्रमाणान्तरापेक्षवाक्यत्वादप्रामाण्यमापतितमित्यत आह -
उत्सर्गोऽप्ययं वाचः सम्प्रदायप्रवर्तनात्मक इति ।
सम्प्रदायो गुरुशिष्यपरम्परयाध्ययनम् । एतदुक्तं भवति - स्वयम्भुवो वेदकर्तृत्वेऽपि न कालिदासादिवत्स्वतन्त्रत्वमपि तु पूर्वसृष्ट्यनुसारेण । एतच्चास्माभिरुपपादितम् । उपपादयिष्यति चाग्रे भाष्यकारः । अपि चाद्यत्वेऽप्येतद्दृश्यते ।
तद्दर्शनात्प्राचामपि कर्तॄणां तथाभावोऽनुमीयत इत्याह -
अपि च चिकीर्षितमिति ।