ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ॥ २८ ॥
ननु जन्माद्यस्य यतः’ (ब्र. सू. १ । १ । २) इत्यत्र ब्रह्मप्रभवत्वं जगतोऽवधारितम् , कथमिह शब्दप्रभवत्वमुच्यते ? अपि यदि नाम वैदिकाच्छब्दादस्य प्रभवोऽभ्युपगतः, कथमेतावता विरोधः शब्दे परिहृतः ? यावता वसवो रुद्रा आदित्या विश्वेदेवा मरुत इत्येतेऽर्था अनित्या एव, उत्पत्तिमत्त्वात्तदनित्यत्वे तद्वाचिनां वैदिकानां वस्वादिशब्दानामनित्यत्वं केन निवार्यते ? प्रसिद्धं हि लोके देवदत्तस्य पुत्र उत्पन्ने यज्ञदत्त इति तस्य नाम क्रियत इतितस्माद्विरोध एव शब्द इति चेत् , गवादिशब्दार्थसम्बन्धनित्यत्वदर्शनात् हि गवादिव्यक्तीनामुत्पत्तिमत्त्वे तदाकृतीनामप्युत्पत्तिमत्त्वं स्यात्द्रव्यगुणकर्मणां हि व्यक्तय एवोत्पद्यन्ते, नाकृतयःआकृतिभिश्च शब्दानां सम्बन्धः, व्यक्तिभिःव्यक्तीनामानन्त्यात्सम्बन्धग्रहणानुपपत्तेःव्यक्तिषूत्पद्यमानास्वप्याकृतीनां नित्यत्वात् गवादिशब्देषु कश्चिद्विरोधो दृश्यतेतथा देवादिव्यक्तिप्रभवाभ्युपगमेऽप्याकृतिनित्यत्वात् कश्चिद्वस्वादिशब्देषु विरोध इति द्रष्टव्यम्आकृतिविशेषस्तु देवादीनां मन्त्रार्थवादादिभ्यो विग्रहवत्त्वाद्यवगमादवगन्तव्यःस्थानविशेषसम्बन्धनिमित्ताश्च इन्द्रादिशब्दाः सेनापत्यादिशब्दवत्ततश्च यो यस्तत्तत्स्थानमधिरोहति, इन्द्रादिशब्दैरभिधीयत इति दोषो भवति चेदं शब्दप्रभवत्वं ब्रह्मप्रभवत्ववदुपादानकारणत्वाभिप्रायेणोच्यतेकथं तर्हि ? स्थिते वाचकात्मना नित्ये शब्दे नित्यार्थसम्बन्धिनि शब्दव्यवहारयोग्यार्थव्यक्तिनिष्पत्तिःअतः प्रभवःइत्युच्यतेकथं पुनरवगम्यते शब्दात्प्रभवति जगदिति ? प्रत्यक्षानुमानाभ्याम्; प्रत्यक्षं श्रुतिः, प्रामाण्यं प्रत्यनपेक्षत्वात्अनुमानं स्मृतिः, प्रामाण्यं प्रति सापेक्षत्वात्ते हि शब्दपूर्वां सृष्टिं दर्शयतः । ‘एत इति वै प्रजापतिर्देवानसृजतासृग्रमिति मनुष्यानिन्दव इति पितॄंस्तिरःपवित्रमिति ग्रहानाशव इति स्तोत्रं विश्वानीति शस्त्रमभिसौभगेत्यन्याः प्रजाःइति श्रुतिःतथान्यत्रापि मनसा वाचं मिथुनं समभवत्’ (बृ. उ. १ । २ । ४) इत्यादिना तत्र तत्र शब्दपूर्विका सृष्टिः श्राव्यते; स्मृतिरपिअनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा ।’(म॰भा॰ १२-२३२-२४),आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः’(कू॰पु॰ २-२७) इति; उत्सर्गोऽप्ययं वाचः सम्प्रदायप्रवर्तनात्मको द्रष्टव्यः, अनादिनिधनाया अन्यादृशस्योत्सर्गस्यासम्भवात्; तथा नाम रूपं भूतानां कर्मणां प्रवर्तनम् ।’, ‘वेदशब्देभ्य एवादौ निर्ममे महेश्वरः’(म॰भा॰ १२-२३२-२६), (वि॰पु॰ १-५-६३) इति; सर्वेषां तु नामानि कर्माणि पृथक् पृथक्वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे’(म॰स्मृ॰ १-२१) इति अपि चिकीर्षितमर्थमनुतिष्ठन् तस्य वाचकं शब्दं पूर्वं स्मृत्वा पश्चात्तमर्थमनुतिष्ठतीति सर्वेषां नः प्रत्यक्षमेतत्तथा प्रजापतेरपि स्रष्टुः सृष्टेः पूर्वं वैदिकाः शब्दा मनसि प्रादुर्बभूवुः, पश्चात्तदनुगतानर्थान्ससर्जेति गम्यतेतथा श्रुतिः भूरिति व्याहरत् भूमिमसृजत’ (तै. ब्रा. २ । २ । ४ । २) इत्येवमादिका भूरादिशब्देभ्य एव मनसि प्रादुर्भूतेभ्यो भूरादिलोकान्सृष्टान्दर्शयति

न चैतावता शब्दार्थसम्बन्धस्यानित्यत्वं, वस्वादिजातेर्वा तदुपाधेर्वा यया कयाचिदाकृत्यावच्छिन्नस्य नित्यत्वादिति । इममेवार्थमाक्षेपसमाधानाभ्यां विभजते -

ननु जन्माद्यस्य यत इति ।

ते निगदव्याख्याते ।

तत्किमिदानीं स्वयम्भुवा वाङ्निर्मिता कालिदासादिभिरिव कुमारसम्भवादि, तथाच तदेव प्रमाणान्तरापेक्षवाक्यत्वादप्रामाण्यमापतितमित्यत आह -

उत्सर्गोऽप्ययं वाचः सम्प्रदायप्रवर्तनात्मक इति ।

सम्प्रदायो गुरुशिष्यपरम्परयाध्ययनम् । एतदुक्तं भवति - स्वयम्भुवो वेदकर्तृत्वेऽपि न कालिदासादिवत्स्वतन्त्रत्वमपि तु पूर्वसृष्ट्यनुसारेण । एतच्चास्माभिरुपपादितम् । उपपादयिष्यति चाग्रे भाष्यकारः । अपि चाद्यत्वेऽप्येतद्दृश्यते ।

तद्दर्शनात्प्राचामपि कर्तॄणां तथाभावोऽनुमीयत इत्याह -

अपि च चिकीर्षितमिति ।