आक्षिपति -
किमात्मकं पुनरिति ।
अयमभिसन्धिः - वाचकशब्दप्रभवत्वं हि देवानामभ्युपेतव्यं, अवाचकेन तेषां बुद्धावनालेखनात् । तत्र न तावद्वस्वादीनां वकारादयो वर्णा वाचकाः, तेषां प्रत्युच्चारणमन्यत्वेनाशक्यसङ्गतिग्रहत्वात् , अगृहीतसङ्गतेश्च वाचकत्वेऽतिप्रसङ्गात् । अपि चैते प्रत्येकं वा वाक्यार्थमभिदधीरन् , मिलिता वा । न तावत्प्रत्येकम् , एकवर्णोच्चारणानन्तरमर्थप्रत्ययादर्शनात् , वर्णान्तरोच्चारणानर्थक्यप्रसङ्गाच्च । नापि मिलिताः, तेषामेकवक्तृप्रयुज्यमानानां रूपतो व्यक्तितो वा प्रतिक्षणमपवर्गिणां मिथः साहित्यसम्भवाभावात् । नच प्रत्येकसमुदायाभ्यामन्यः प्रकारः सम्भवति । नच स्वरूपसाहित्याभावेऽपि वर्णानामाग्नेयादीनामिव संस्कारद्वारकमस्ति साहित्यमिति साम्प्रतं, विकल्पासहत्वात् । को नु खल्वयं संस्कारोऽभिमतः, किमपूर्वमाग्नेयादिजन्यमिव, किंवा भावनापरनामा स्मृतिप्रसवबीजम् । न तावत्प्रथमः कल्पः । नहि शब्दः स्वरूपतोऽङ्गतो वाऽविदितोऽविदितसङ्गतिरर्थधीहेतुरिन्द्रियवत् । उच्चरितस्य बधिरेणागृहीतस्य गृहीतस्य वाऽगृहीतसङ्गतेरप्रत्यायकत्वात् । तस्माद्विदितो विदितसङ्गतिर्विदितसमस्तज्ञापनाङ्गश्च शब्दो धूमादिवत्प्रत्यायकोऽभ्युपेयः । तथाचापूर्वाभिधानोऽस्य संस्कारः प्रत्यायनाङ्गमित्यर्थप्रत्ययात्प्रागवगन्तव्यः । नच तदा तस्यावगमोपायोऽस्ति । अर्थप्रत्ययात्तु तदवगमं समर्थयमानो दुरुत्तरमितरेतराश्रयमाविशति, संस्कारावसायादर्थप्रत्ययः, ततश्च तदवसाय इति । भावनाभिधानस्तु संस्कारः स्मृतिप्रसवसामर्थ्यमात्मनः । नच तदेवार्थप्रत्ययप्रसवसामर्थ्यमपि भवितुमर्हति । नापि तस्यैव सामर्थ्यस्य सामर्थ्यान्तरम् । नहि यैव वह्नेर्दहनशक्तिः सैव तस्य प्रकाशनशक्तिः । नापि दहनशक्तेः प्रकाशनशक्तिः अपिच व्युत्क्रमेणोच्चरितेभ्यो वर्णेभ्यः सैवास्ति स्मृतिबीजं वासनेत्यर्थप्रत्ययः प्रसज्येत । न चास्ति । तस्मान्न कथञ्चिदपि वर्णा अर्थधीहेतवः । नापि तदतिरिक्तः स्फोटात्मा । तस्यानुभवानारोहात् । अर्थधियस्तु कार्यात्तदवगमे परस्पराश्रयप्रसङ्ग इत्युक्तप्रायम् । सत्तामात्रेण तु तस्य नित्यस्यार्थधीहेतुभावे सर्वदार्थप्रत्ययोत्पादप्रसङ्गः, निरपेक्षस्य हेतोः सदातनत्वात् । तस्माद्वाचकाच्छब्दाद्वाच्योत्पाद इत्यनुपपन्नमिति ।
अत्राचार्यदेशीय आह -
स्फोटमित्याहेति ।
मृष्यामहे न वर्णाः प्रत्यायका इति । न स्फोट इति तु न मृष्यामः । तदनुभवानन्तरं विदितसङ्गतेरर्थधीसमुत्पादात् । नच वर्णातिरिक्तस्य तस्यानुभवो नास्ति । गौरित्येकं पदं, गामानय शुक्लमित्येकं वाक्यमिति नानावर्णपदातिरिक्तैकपदवाक्यावगतेः सर्वजनीनत्वात् । न चायमसति बाधके एकपदवाक्यानुभवः शक्यो मिथ्येति वक्तुम् । नाप्यौपाधिकः । उपाधिः खल्वेकधीग्राह्यता वा स्यात् , एकार्थधीहेतुता वा । न तावदेकधीगोचराणां धवखदिरपलाशानामेकनिर्भासः प्रत्ययः समस्ति । तथा सति धवखदिरपलाशा इति न जातु स्यात् । नाप्येकार्थधीहेतुता । तद्धेतुत्वस्य वर्णेषु व्यासेधात् । तद्धेतुत्वेन तु साहित्यकल्पनेऽन्योन्याश्रयप्रसङ्गः । साहित्यात्तद्धेतुत्वं तद्धेतुत्वाच्च साहित्यमिति । तस्मादयमबाधितोऽनुपाधिश्च पदवाक्यगोचर एकनिर्भासानुभवो वर्णातिरिक्तं वाचकमेकमवलम्बते स स्फोट इति तं च ध्वनयः प्रत्येकं व्यञ्जयन्तोऽपि न द्रागित्वेव विशदयन्ति, येन द्रागर्थधीः स्यात् । अपि तु रत्नतत्त्वज्ञानवद्यथास्वं द्वित्रिचतुष्पञ्चषड्दर्शनजनितसंस्कारपरिपाकसचिवचेतोलब्धजन्मनि चरमे चेतसि चकास्ति विशदं पदवाक्यतत्त्वमिति प्रागनुत्पन्नायास्तदनन्तरमर्थधिय उदय इति नोत्तरेषामानर्थक्यं ध्वनीनाम् । नापि प्राचां, तदभावे तज्जनितसंस्कारतत्परिपाकाभावेनानुग्रहाभावात् । अन्त्यस्य चेतसः केवलस्याजनकत्वात् । नच पदप्रत्ययवत् , प्रत्येकमव्यक्तामर्थधियमाधास्यन्ति प्राञ्चो वर्णाः, चरमस्तु तत्सचिवः स्फुटतरामिति युक्तम् । व्यक्ताव्यक्तावभासितायाः प्रत्यक्षज्ञाननियमात् । स्फोटज्ञानस्य च प्रत्यक्षत्वात् । अर्थधियस्त्वप्रत्यक्षाया मानान्तरजन्मनो व्यक्त एवोपजनो न वा स्यान्न पुनरस्फुट इति न समः समाधिः । तस्मान्नित्यः स्फोट एव वाचको न वर्णा इति ।