तदेतदाचार्यदेशीयमतं स्वमतमुपपादयन्नपाकरोति -
वर्णा एव तु न शब्द इति ।
एवं हि वर्णातिरिक्तः स्फोटोऽभ्युपेयेत, यदि वर्णानां वाचकत्वं न सम्भवेत् , स चानुभवपद्धतिमध्यासीत । द्विधा च वाचकत्वं वर्णानां, क्षणिकत्वेनाशक्यसङ्गतिग्रहत्वाद्वा व्यस्तसमस्तप्रकारद्वयाभावाद्वा । न तावत्प्रथमः कल्पः । वर्णानां क्षणिकत्वे मानाभावात् । ननु वर्णानां प्रत्युच्चारणमन्यत्वं सर्वजनप्रसिद्धम् । न । प्रत्यभिज्ञायमानत्वात् । न चासत्यप्येकत्वे ज्वालादिवत्सादृश्यनिबन्धनमेतत् , प्रत्यभिज्ञानमिति साम्प्रतम् । सादृश्यनिबन्धनत्वमस्य बलवद्बाधकोपनिपाताद्वास्थीयेत, क्वचिज्ज्वालादौ व्यभिचारदर्शनाद्वा । तत्र क्वचिद्व्यभिचारदर्शनेन तदुत्प्रेक्षायामुच्यते वृद्धेः स्वतःप्रामाण्यवादिभिः “उत्प्रेक्षेत हि यो मोहादज्ञातमपि बाधनम् । स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत्” ॥ इति । प्रपञ्चितं चैतदस्माभिर्न्यायकणिकायाम् । न चेदं प्रत्यभिज्ञानं गत्वादिजातिविषयं न गादिव्यक्तिविषयं, तासां प्रतिनरं भेदोपलम्भादत एव शब्दभेदोपलम्भाद्वक्तृभेद उन्नीयते “सोमशर्माधीते न विष्णुशर्मा” इति युक्तम् । यतो बहुषु गकारमुच्चारयत्सु निपुणमनुभवः परीक्ष्यताम् । यथा कालाक्षीं च स्वस्तिमतीं चेक्षमाणस्य व्यक्तिभेदप्रथायां सत्यामेव तदनुगतमेकं सामान्यं प्रथते, तथा किं गकारादिषु भेदेन प्रथमानेष्वेव गत्वमेकं तदनुगतं चकास्ति, किंवा यथा गोत्वमाजानत एकं भिन्नदेशपरिमाणसंस्थानव्यक्त्युपधानभेदाद्भिन्नदेशमिवाल्पमिव महदिव दीर्घमिव वामनमिव तथागव्यक्तिराजानत एकापि व्यञ्जकभेदात्तद्धर्मानुपातिनीव प्रथत इति भवन्त एव विदाङ्कुर्वन्तु । तत्र गव्यक्तिभेदमङ्गीकृत्यापि यो गत्वस्यैकस्य परोपधानभेदकल्पनाप्रयासः स वरं गव्यक्तावेवास्तु किमन्तर्गडुना गत्वेनाभ्युपेतेन । यथाहुः - “तेन यत्प्रार्थ्यते जातेस्तद्वर्णादेव लप्स्यते । व्यक्तिलभ्यं तु नादेभ्य इति गत्वादिधीर्वृथा” ॥ नच स्वस्तिमत्यादिवत् गव्यक्तिभेदप्रत्ययः स्फुटः प्रत्युच्चारणमस्ति । तथा सति दश गकारानुदचारयच्चैत्र इति हि प्रत्ययः स्यात् । न स्याद्दशकृत्व उदचारयद्गकारमिति । न चैष जात्यभिप्रायोऽभ्यासो यथा शतकृत्वस्तित्तिरीनुपायुङ्क्त देवदत्त इति । अत्र हि सोरस्ताडं क्रन्दतोऽपि गकारादिव्यक्तौ लोकस्योच्चारणाभ्यासप्रत्ययस्य विनिर्वृत्तिः ।
चोदकः प्रत्यभिज्ञानबाधकमुत्थापयति -
कथं ह्येकस्मिन्काले बहूनामुच्चारयतामिति ।
यत् युगपद्विरुद्धधर्मसंसर्गवत्तत् नाना, यथा गवाश्वादिर्द्विशफैकशफकेशरगलकम्बलादिमान् । युगपदुदात्तानुदात्तादिविरुद्धधर्मसंसर्गवांश्चायं वर्णः । तस्मान्नाना भवितुमर्हति । न चोदात्तादयो व्यञ्जकधर्माः, न वर्णधर्मा इति साम्प्रतम् । व्यञ्जका ह्यस्य वायवः । तेषामश्रावणत्वे कथं तद्धर्माः श्रावणाः स्युः । इदं तावदत्र वक्तव्यम् । नहि गुणगोचरमिन्द्रियं गुणिनमपि गोचरयति, मा भूवन् घ्राणरसनश्रोत्राणां गन्धरसशब्दगोचराणां तद्वन्तः पृथिव्युदकाकाशा गोचराः । एवं च मा नाम भूद्वायुगोचरं श्रोत्रम् , तद्गुणांस्तूदात्तादीन् गोचरयिष्यति । ते च शब्दसंसर्गाग्रहात् शब्दधर्मत्वेनाध्यवसीयन्ते ।
नच शब्दस्य प्रत्यभिज्ञानावधृतैकत्वस्य स्वरूपत उदात्तादयो धर्माः परस्परविरोधिनोऽपर्यायेण सम्भवन्ति । तस्माद्यथा मुखस्यैकस्य मणिकृपाणदर्पणाद्युपधानवशान्नानादेशपरिमाणसंस्थानभेदविभ्रमः, एवमेकस्यापि वर्णस्य व्यञ्जकध्वनिनिबन्धनोऽयं विरुद्धनानाधर्मसंसर्गविभ्रमः, न तु भाविको नानाधर्मसंसर्ग इति स्थितेऽभ्युपेत्य परिहारमाह भाष्यकारः -
अथवा ध्वनिकृत इति ।
अथवेति पूर्वपक्षं व्यावर्तयति । भवेतां नाम गुणगुणिनावेकेन्द्रियग्राह्यौ, तथाप्यदोषः । ध्वनीनामपि शब्दवच्छ्रावणत्वात् ।
ध्वनिस्वरूपं प्रश्नपूर्वकं वर्णेभ्यो निष्कर्षयति -
कः पुनरयमिति ।
न चायमनिर्धारितविशेषवर्णत्वसामान्यमात्रप्रत्ययो न तु वर्णातिरिक्ततदभिव्यञ्जकध्वनिप्रत्यय इति साम्प्रतम् । तस्यानुनासिकत्वादिभेदभिन्नस्य गादिव्यक्तिवत्प्रत्यभिज्ञानाभावात् , अप्रत्यभिज्ञायमानस्य चैकत्वाभावेन सामान्यभावानुपपत्तेः । तस्मादवर्णात्मको वैष शब्दः, शब्दातिरिक्तो वा ध्वनिः, शब्दव्यञ्जकः श्रावणोऽभ्युपेयः उभयथापि चाक्षु व्यञ्जनेषु च तत्तद्ध्वनिभेदोपधानेनानुनासिकत्वादयोऽवगम्यमानास्तद्धर्मा एव शब्दे प्रतीयन्ते न तु स्वतः शब्दस्य धर्माः । तथा च येषामनुनासिकत्वादयो धर्माः परस्परविरुद्धा भासन्ते भवतु तेषां ध्वनीनामनित्यता । नहि तेषु प्रत्यभिज्ञानमस्ति । येषु तु वर्णेषु प्रत्यभिज्ञानं न तेषामनुनासिकत्वादयो धर्मा इति नानित्याः ।
एवं च सति सालम्बना इति ।
यद्येष परस्याग्रहो धर्मिण्यगृह्यमाणे तद्धर्मा न शक्या ग्रहीतुमिति, एवं नामास्तु तथा तुष्यतु परः । तथाप्यदोष इत्यर्थः । तदनेन प्रबन्धेन क्षणिकत्वेन वर्णानामशक्यसङ्गतिग्रहतया यदवाचकत्वमापादितं वर्णानां तदपाकृतम् ।
व्यस्तसमस्तप्रकारद्वयासम्भवेन तु यदासञ्जितं तन्निराचिकीर्षुराह -
वर्णेभ्यश्चार्थप्रतीतेरिति ।
कल्पनाममृष्यमाण एकदेश्याह -
न कल्पयामीति ।
निराकरोति -
न ।
अस्या अपि बुद्धेरिति ।
निरूपयतु तावद्गौरित्येकं पदमिति धियमायुष्मान् । किमियं पूर्वानुभूतान्गकारादीनेव सामस्त्येनावगाहते किंवा गकाराद्यतिरिक्तं, गवयमिव वराहादिभ्यो विलक्षणम् । यदि गकारादिविलक्षणमवभासयेत् , गकारादिरूषितः प्रत्ययो न स्यात् । नहि वराहधीर्महिषरूषितं वराहमवगाहते । पदतत्त्वमेकं प्रत्येकमभिव्यञ्जयन्तो ध्वनयः प्रयत्नभेदभिन्नास्तुल्यस्थानकरणनिष्पाद्यतयान्योन्यविसदृशतत्तत्पदव्यञ्जकध्वनिसादृश्येन स्वव्यञ्जनीयस्यैकस्य पदतत्त्वस्य मिथो विसदृशानेकपदसादृश्यान्यापादयन्तः सादृश्योपधानभेदादेकमप्यभागमपि नानेव भागवदिव भासयन्ति, मुख्यमिवैकं नियतवर्णपरिमाणस्थानसंस्थानभेदमपि मणिकृपाणदर्पणादयोऽनेकवर्णपरिमाणसंस्थानभेदम् । एवं च कल्पिता एवास्य भागा वर्णा इति चेत् , तत्किमिदानीं वर्णभेदानसत्यपि बाधके मिथ्येति वक्तुमध्यवसितोऽसि । एकधीरेव नानात्वस्य बधिकेति चेत् , हन्तास्यां नाना वर्णाः प्रथन्त इति नानात्वावभास एकैकत्वं कस्मान्न बाधते । अथवा वनसेनादिबुद्धिवदेकत्वनानात्वे न विरुद्धे । नो खलु सेनावनबुद्धी गजपदातितुरगादीनां चम्पकाशोककिंशुकादीनां च भेदमपबाधमाने उदीयेते, अपि तु भिन्नानामेव सतां केनचिदेकेनोपाधिनावच्छिन्नानामेकत्वमापादयतः । नच परोपाधिकेनैकत्वेन स्वाभाविकं नानात्वं विरुध्यते । नह्यौपचारिकमग्नित्वं माणवकस्य स्वाभाविकनरत्वविरोधि । तस्मात्प्रत्येकवर्णानुभवजनितभावनानिचयलब्धजन्मनि निखिलवर्णावगाहिनि स्मृतिज्ञान एकस्मिन्भासमानानां वर्णानां तदेकविज्ञानविषयतया वैकार्थधीहेतुतया वैकत्वमौपचारिकमवगन्तव्यम् । न चैकार्थधीहेतुत्वेनैकत्वमेकत्वेन चैकार्थधीहेतुभाव इति परस्पराश्रयम् । नह्यर्थप्रत्ययात्पूर्वमेतावन्तो वर्णा एकस्मृतिसमारोहिणो न प्रथन्ते । न च तत्प्रथनानन्तरं वृद्धस्यार्थधीर्नोन्नीयते, तदुन्नयनाच्च तेषामेकार्थधियं प्रति कारकत्वमेकमवगम्यैकपदत्वाध्यवसानमिति नान्योन्याश्रयम् । न चैकस्मृतिसमारोहिणां क्रमाक्रमविपरीतक्रमप्रयुक्तानामभेदो वर्णानामिति यथाकथञ्चित्प्रयुक्तेभ्य एतेभ्योऽर्थप्रत्ययप्रसङ्ग इति वाच्यम् । उक्तं हि - “यावन्तो यादृशा ये च पदार्थप्रतिपादने । वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवावबोधकाः” ॥ इति । ननु पङ्क्तिबुद्धावेकस्यामक्रमायामपि वास्तवी शालादीनामस्ति पङ्क्तिरिति तथैव प्रथा युक्ता, नच तथेह वर्णानां नित्यानां विभूनां चास्ति वास्तवः क्रमः, प्रत्ययोपाधिस्तु भवेत् , सचैक इति, कुतस्त्यः क्रम एषामिति चेत् , । न एकस्यामपि स्मृतौ वर्णरूपवत्क्रमवत्पूर्वानुभूततापरामर्शात् । तथाहि - जाराराजेति पदयोः प्रथयन्त्योः स्मृतिधियोस्तत्त्वेऽपि वर्णानां क्रमभेदात्पदभेदः स्फुटतरं चकास्ति । तथाच नाक्रमविपरीतक्रमप्रयुक्तानामविशेषः स्मृतिबुद्धावेकस्यां वर्णानां क्रमप्रयुक्तानाम् । यथाहुः - “पदावधारणोपायान्बहूनिच्छन्ति सूरयः । क्रमन्यूनातिरिक्तत्वस्वरवाक्यश्रुतिस्मृतीः” ॥ इति । शेषमतिरोहितार्थम् । दिङ्मात्रमत्र सूचितं, विस्तरस्तु तत्त्वबिन्दाववगन्तव्य इति । अलं वा नैयायिकैर्विवादेन ।