स्यादेतत् । मन्त्रार्थवादेतिहासपुराणलोकेभ्य इति ।
तत्र “जगृभ्माते दक्षिणमिन्द्रहस्तम्” इति च, “काशिरिन्द्र इत्” इति च । काशिर्मुष्टिः । तथा “तुविग्रीवो वपोदरः सुबाहुरन्धसो मदे । इन्द्रो वृत्राणि जिघ्नते”(ऋ.सं. ८-७-१७) इति विग्रहवत्त्वं देवताया मन्त्रार्थवादा अभिवदन्ति । तथा हविर्भोजनं देवताया दर्शयन्ति - “अद्धीन्द्र पिब च प्रस्थितस्य”(ऋ.सं. १०-११६-७) इत्यादयः । तथेशनम् - “इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रो अपामिन्द्र इत्पर्वतानाम् । इन्द्रो वृधामिन्द्र इन्मेधिराणामिन्द्रः क्षेमे योगे हव्य इन्द्रः”(ऋ.सं. १०-८९-१०) इति, तथा “ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः”(ऋ.सं. ७-३२-२२) इति । तथा वरिवसितारं प्रति देवतायाः प्रसादं प्रसन्नायाश्च फलदानं दर्शयति “आहुतिभिरेव देवान् हुतादः प्रीणाति तस्मै प्रीता इषमूर्जं च यच्छन्ति” इति, “तृप्त एवैनमिन्द्रः प्रजया पशुभिस्तर्पयति” इति च । धर्मशास्त्रकारा अप्याहुः - “ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः” । इति पुराणवचांसि च भूयांसि देवताविग्रहादिपञ्चकप्रपञ्चमापक्षते । लौकिका अपि देवताविग्रहादिपञ्चकं स्मरन्ति चोपचरन्ति च । तथाहि - यमं दण्डहस्तमालिखन्ति, वरुणं पाशहस्तम् , इन्द्रं वज्रहस्तम् । कथयन्ति च देवता हविर्भुज इति । तथेशनामिमामाहुः - देवग्रामो देवक्षेत्रमिति । तथास्याः प्रसादं च प्रसन्नायाश्च फलदानमाहुः - प्रसन्नोऽस्य पशुपतिः पुत्रोऽस्य जातः । प्रसन्नोऽस्य धनदो धनमनेन लब्धमिति ।
तदेतत्पूर्वपक्षी दूषयति -
नेत्युच्यते । नहि तावल्लोको नामेति ।
न खलुप्रत्यक्षादिव्यतिरिक्तो लोको नाम प्रमाणान्तरमस्ति, किन्तु प्रत्यक्षादिमूला लोकप्रसिद्धिः सत्यतामश्नुते, तदभावे त्वन्धपरम्परावन्मूलाभावाद्विपल्वते । नच विग्रहादौ प्रत्यक्षादीनामन्यतममस्ति प्रमाणम् । न चेतिहासादि मूलं भवितुमर्हति, तस्यापि पौरुषेयत्वेन प्रत्यक्षाद्यपेक्षणात् ।
प्रत्यक्षादीनां चात्राभावादित्याह -
इतिहासपुराणमपीति ।
ननूक्तं मन्त्रार्थवादेभ्यो विग्रहादिपञ्चकप्रसिद्धिरिति, अत आह -
अर्थवादा अपीति ।
विध्युद्देशेनैकवाक्यतामापद्यमाना अर्थवादा विधिविषयप्राशस्त्यलक्षणापरा न स्वार्थे प्रमाणं भवितुमर्हन्ति । “यत्परः शब्दः स शब्दार्थः” इति हि शाब्दन्यायविदः । प्रमाणान्तरेण तु यत्र स्वार्थेऽपि समर्थ्यते, यथा वायोः क्षेपिष्ठत्वम् , तत्र प्रमाणान्तरवशात्सोऽभ्युपेयते न तु शब्दसामर्थ्यात् । यत्र तु न प्रमाणान्तरमस्ति, यथा विग्रहादिपञ्चके, सोऽर्थः शब्दादेवावगन्तव्यः । अतत्परश्च शब्दो न तदवगमयुतिमलमिति । तदवगमपरस्य तत्रापि तात्पर्यमभ्युपेतव्यम् । न चैकं वाक्यमुभयपरं भवतीति वाक्यं भिद्येत । नच सम्भवत्येकवाक्यत्वे वाक्यभेदो युज्यते । तस्मात्प्रमाणान्तरानधिगता विग्रहादिमत्ता अन्यपराच्छब्दादवगन्तव्येति मनोरथमात्रमित्यर्थः । मन्त्राश्च व्रीह्यादिवच्छ्रुत्यादिभिस्तत्र तत्र विनियुज्यमानाः प्रमाणभावाननुप्रवेशिनः कथमुपयुज्यन्तां तेष तेषु कर्मस्वित्यपेक्षायां दृष्टे प्रकारे सम्भवति नादृष्टकल्पनोचिता । दृष्टश्च प्रकारः प्रयोगसमवेतार्थस्मारणं, स्मृत्या चानुतिष्ठन्ति खल्वनुष्ठातारः पदार्थान् । औत्सर्गिकी चार्थपरता पदानामित्यपेक्षितप्रयोगसमवेतार्थस्मरणतात्पर्याणां मन्त्राणां नानधिगते विग्रहादावपि तात्पर्यं युज्यत इति न तेभ्योऽपि तत्सिद्धिः । तस्माद्देवताविग्रहवत्तादिभावग्राहकप्रमाणाभावात् प्राप्ता षष्ठप्रमाणगोचरतास्येति प्राप्तम् ॥ ३२ ॥