क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ।
इतश्च न जातिशूद्रो जानश्रुतिः - यत्कारणं
प्रकरणनिरूपणे क्रियमाणे क्षत्रियत्वमस्य जानश्रुतेरवगम्यते चैत्ररथेन लिङ्गादिति व्याचक्षाणः प्रकरणं निरूपयति -
उत्तरत्र हि संवर्गविद्यावाक्यशेषे ।
चैत्ररथेनाभिप्रतारिणा निश्चितक्षत्रियत्वेन समानायां संवर्गविद्यायां समभिव्याहाराल्लिङ्गात्सन्दिग्धक्षत्रियभावो जानश्रुतिः क्षत्रियो निश्चीयते । “अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं सूदेन परिविष्यमाणौ ब्रह्मचारी बिभिक्षे”(बृ. उ. ४ । ३ । ५) इति प्रसिद्धयाजकत्वेन कापेयेनाभिप्रतारिणो योगः प्रतीयते । ब्रह्मचारिभिक्षया चास्याशूद्रत्वमवगम्यते । नहि जातु ब्रह्मचारी शूद्रान् भिक्षते । याजकेन च कापेयेन योगाद्याज्योऽभिप्रतारी । क्षत्रियत्वं चास्य चैत्ररथित्वात् । “तस्माच्चैत्ररथो नामैकः क्षत्रपतिरजायत” इति वचनात् । चैत्ररथित्वं चास्य कापेयेन याजकेन योगात् ।
एतेन वै चित्ररथं कापेया अयाजयन्निति
छन्दोगानां द्विरात्रे श्रूयते । तेन चित्ररथस्य याजकाः कापेयाः । एष चाभिप्रतारी चित्ररथादन्यः सन्नेव कापेयानां याज्यो भवति । यदि चैत्ररथिः स्यात् समानान्वयानां हि प्रायेण समानान्वया याजका भवन्ति । तस्माच्चैत्ररथित्वादभिप्रतारी काक्षसेनिः क्षत्रियः । तत्समभिव्याहाराच्च जानश्रुतिरपि क्षत्रियः सम्भाव्यते ।
इतश्च क्षत्रियो जानश्रुतिरित्याह -
क्षत्तृप्रेषणाद्यैश्वर्ययोगाच्च ।
क्षत्तृप्रेषणे चार्थसम्भवे च तादृशस्य वदान्यप्रष्ठस्यैश्वर्यं प्रायेण क्षत्रियस्य दृष्टं युधिष्ठिरादिवदिति ॥ ३५ ॥