ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥ ३४ ॥
शूद्रस्याधिकारः, वेदाध्ययनाभावात्अधीतवेदो हि विदितवेदार्थो वेदार्थेष्वधिक्रियते शूद्रस्य वेदाध्ययनमस्तिउपनयनपूर्वकत्वाद्वेदाध्ययनस्य, उपनयनस्य वर्णत्रयविषयत्वात्यत्तु अर्थित्वम् , तदसति सामर्थ्येऽधिकारकारणं भवतिसामर्थ्यमपि लौकिकं केवलमधिकारकारणं भवति; शास्त्रीयेऽर्थे शास्त्रीयस्य सामर्थ्यस्यापेक्षितत्वात्शास्त्रीयस्य सामर्थ्यस्याध्ययननिराकरणेन निराकृतत्वात्यच्चेदम्शूद्रो यज्ञेऽनवकॢप्तःइति, तत् न्यायपूर्वकत्वाद्विद्यायामप्यनवकॢप्तत्वं द्योतयति; न्यायस्य साधारणत्वात्त्पुनः संवर्गविद्यायां शूद्रशब्दश्रवणं लिङ्गं मन्यसे, तल्लिङ्गम्; न्यायाभावात्न्यायोक्ते हि लिङ्गदर्शनं द्योतकं भवति चात्र न्यायोऽस्तिकामं चायं शूद्रशब्दः संवर्गविद्यायामेवैकस्यां शूद्रमधिकुर्यात् , तद्विषयत्वात् सर्वासु विद्यासुअर्थवादस्थत्वात्तु क्वचिदप्ययं शूद्रमधिकर्तुमुत्सहतेशक्यते चायं शूद्रशब्दोऽधिकृतविषयो योजयितुम्कथमित्युच्यतेकम्वर एनमेतत्सन्तं सयुग्वानमिव रैक्वमात्थ’ (छा. उ. ४ । १ । ३) इत्यस्माद्धंसवाक्यादात्मनोऽनादरं श्रुतवतो जानश्रुतेः पौत्रायणस्य शुक् उत्पेदेतामृषी रैक्वः शूद्रशब्देनानेन सूचयांबभूव आत्मनः परोक्षज्ञताख्यापनायेति गम्यतेजातिशूद्रस्यानधिकारात्कथं पुनः शूद्रशब्देन शुगुत्पन्ना सूच्यत इति, उच्यतेतदाद्रवणात्; शुचमभिदुद्राव, शुचा वा अभिदुद्रुवे, शुचा वा रैक्वमभिदुद्रावइति शूद्रः; अवयवार्थसम्भवात् , रूढ्यर्थस्य चासम्भवात्दृश्यते चायमर्थोऽस्यामाख्यायिकायाम् ॥ ३४ ॥

एवं प्राप्ते ब्रूमः - न शूद्रस्याधिकारः वेदाध्ययनाभावादिति ।

अयमभिसन्धिः - यद्यपि “स्वाध्यायोऽध्येतव्यः” इत्यध्ययनविधिर्न किञ्चित्फलवत्कर्मारभ्याम्नातः, नाप्यव्यभिचरितक्रतुसम्बन्धपदार्थगतः, नहि जुह्वादिवत्स्वाध्यायोऽव्यभिचरितक्रतुसबन्धः, तथापि स्वाध्यायस्याध्ययनसंस्कारविधिरध्ययनस्यापेक्षितोपायतामवगमयन् किं पिण्डपितृयज्ञवत् स्वर्गं वा, सुवर्णं भार्यमितिवदार्थवादिकं वा फलं कल्पयित्वा विनियोगभङ्गेन स्वाध्यायेनाधीयीतेत्येवमर्थः कल्पतां, किंवा परम्परयाप्यन्यतोऽपेक्षितमधिगम्य निर्वृणोत्विति विषये, न दृष्टद्वारेण परम्परयाप्यन्यतोऽपेक्षितप्रतिलम्भे च यथाश्रुतिविनियोगोपपत्तौ च सम्भवन्त्यां श्रुतिविनियोगभङ्गेनाध्ययनादेवाश्रुतादृष्टफलकल्पनोचिता । दृष्टश्च स्वाध्यायाध्ययनसंस्कारः । तेन हि पुरुषेण स प्राप्यते, प्राप्तश्च फलवत्कर्मब्रह्मावबोधमभ्युदयनिःश्रेयसप्रयोजनमुपजनयति, नतु सुवर्णधारणादौ दृष्टद्वारेण किञ्चित्परम्परयाप्यस्त्यपेक्षितं पुरुषस्य, तस्माद्विपरिवृत्य साक्षाद्धारणादेव विनियोगभङ्गेन फलं कल्प्यते । यदा चाध्यनसंस्कृतेन स्वाध्यायेन फलवत्कर्मब्रह्मावबोधो भाव्यमानोऽभ्युदयनिःश्रेयसप्रयोजन इति स्थापितं तदा यस्याध्ययनं तस्यैव कर्मब्रह्मावबोधोऽभ्युदयनिःश्रेयसप्रयोजनो नान्यस्य, यस्य चोपनयनसंस्कारस्तस्यैवाध्ययनं, स च द्विजातीनामेवेत्युपनयनाभावेनाध्ययनसंस्काराभावात् पुस्तकादिपठितस्वाध्यायजन्योऽर्थावबोधः शूद्राणां न फलाय कल्पत इति शास्त्रीयसामर्थ्याभावान्न शूद्रो ब्रह्मविद्यायामधिक्रियत इति सिद्धम् ।

यज्ञेऽनवकॢप्त इति ।

यज्ञग्रहणमुपलक्षणार्थम् । विद्यायामनवकॢप्त इत्यपि द्रष्टव्यम् । सिद्धवदभिधानस्य न्यायपूर्वकत्वान्न्यायस्य चोभयत्र साम्यात् ।

द्वितीयं पूर्वपक्षमनुभाषते -

यत्पुनः संवर्गविद्यायामिति ।

दूषयति -

न तल्लिङ्गम् ।

कुतः ।

न्यायाभावात् ।

न तावच्छूद्रः संवर्गविद्यायां साक्षाच्चोद्यते, यथा “एतया निषादस्थपतिं याजयेत्” इति निषादस्थपतिः । किन्त्वर्थवादगतोऽयं शूद्रशब्दः, स चान्यतः सिद्धमर्थवद्योतयति न तु प्रापयतीत्यध्वरमीमांसकाः । अस्माकं तु अन्यपरादपि वाक्यादसति बाधके प्रमाणान्तरेणार्थोऽवगम्यमानो विधिना चापेक्षितः स्वीक्रियत एव । न्यायश्चास्मिन्नर्थे उक्तो बाधकः । नच विध्यपेक्षास्ति, द्विजात्यधिकारप्रतिलम्भेन विधेः पर्यवसानात् । विध्युद्देशगतत्वे त्वयं न्यायोऽपोद्यते वचनबलान्निषादस्थपतिवन्न त्वेष विध्युद्देशगत इत्युक्तम् । तस्मान्नार्थवादमात्राच्छूद्राधिकारसिद्धिरिति भावः ।

अपि च किमर्थवादबलाद्विद्यामात्रेऽधिकारः शूद्रस्य कल्पते संवर्गविद्यायां वा न तावद्विद्यामात्र इत्याह -

कामं चायमिति ।

नहि संवर्गविद्यायामर्थवादः श्रुतो विद्यामात्रेऽधिकारिणमुपनयत्यतिप्रसङ्गात् । अस्तु तर्हि संवर्गविद्यायामेव शूद्रस्याधिकार इत्यत आह -

अर्थवादस्थत्वादिति ।

तत्किमेतच्छूद्रपदं प्रमत्तगीतं, न चैत्यद्युक्तं, तुल्यं हि साम्प्रदायिकमित्यत आह -

शक्यते चायं शूद्रशब्द इति ।

एवं किलात्रोपाख्यायते - जानश्रुतिः पौत्रायणो बहुदायी श्रद्धादेयो बहुपाक्यः प्रियातिथिर्बभूव । स च तेषु तेषु ग्रामनगरशृङ्गाटकेषु विविधानामन्नपानानां पूर्णानतिथिभ्य आवसथान् कारयामास । सर्वत एत्यैतेष्वावसथेषु ममान्नपानमर्थिन उपयोक्ष्यन्त इति । अथास्य राज्ञो दानशौण्डस्य गुणगरिमसन्तोषिताः सन्तो देवर्षयो हंसरूपमास्थाय तदनुग्रहाय तस्य निदाघसमये दोषा हर्म्यतलस्थस्योपरि मालामाबध्याजग्मुः । तेषामग्रेसरं हंसं सम्बोध्य पृष्ठतः पतन्नेकतमो हंसः साद्भुतमभ्युवाद । भो भो भल्लाक्ष भल्लाक्ष, जानश्रुतेरस्य पौत्रायणस्य द्युनिशं द्युलोक आयतं ज्योतिस्तन्मा प्रसाङ्क्षीर्मैतत्त्वा धाक्षीदिति । तमेवमुक्तवन्तमग्रगामी हंसः प्रत्युवाच । कं वरमेनमेतत्सन्तं सयुग्वानमिव रैक्वमात्थ । अयमर्थः - वर इति सोपहासमवरमाह । अथवा वरो वराकोऽयं जानश्रुतिः । कमित्याक्षेपे । यस्मादयं वराकस्तस्मात्कमेनं किम्भूतमेतं सन्तं प्राणिमात्रं रैक्वमिव सयुग्वानमात्थ । युग्वा गन्त्री शकटी तया सह वर्तत इति स युग्वा रैक्वस्तमिव कमेनं प्राणिमात्रं जानश्रुतिमात्थ । रैक्वस्य हि ज्योतिरसह्यं नत्वेतस्य प्राणिमात्रस्य । तस्य हि भगवतः पुण्यज्ञानसम्भारसम्भृतस्य रैक्वस्य ब्रह्मविदो धर्मे त्रैलोक्योदरवर्तिप्राणभृन्मात्रधर्मोऽन्तर्भवति न पुना रैक्वधर्मकक्षां कस्यचिद्धर्मोऽवगाहत इति । अथैष हंसवचनादात्मनोऽत्यन्तनिकर्षमुत्कर्षकाष्ठां च रैक्वस्योपश्रुत्य विषण्णमानसो जानश्रुतिः कितव इवाक्षपराजितः पौनःपुन्येन निःश्वसन्नुद्वेलं कथं कथमपि निशीथमतिवाहयाम्बभूव । ततो निशावसानपिशुनमनिभृतवन्दारुवृन्दप्रारब्धस्तुतिसहस्रसंवलितं मङ्गलतूर्यनिर्घोषमाकर्ण्य तल्पतलस्थ एव राजा एकपदे यन्तारमाहूयादिदेश, वयस्य, रैक्वाह्वयं ब्रह्मविदमेकरतिं सयुग्वानमतिविविक्तेषु तेषु तेषु विपिननगनिकुञ्जनदीपुलिनादिप्रदेशेष्वन्विष्य प्रयत्नतोऽस्मभ्यमाचक्ष्वेति । स च तत्र तत्रान्विष्यन् क्वचिदतिविविक्ते देशे शकटस्याधस्तात् पामानं कण्डूयमानं ब्राह्मणायनमद्राक्षीत् । तं च दृष्ट्वा रैक्वोऽयं भवितेति प्रतिभावानुपविश्य सविनयमप्राक्षीत् , त्वमसि हे भगवन् , सयुग्वा रैक्व इति । तस्य च रैक्वभावानुमतिं च तैस्तैरिङ्गितैर्गार्हस्थ्येच्छां धनायां चोन्नीय यन्ता राज्ञे निवेदयामास । राजा तु तं निशम्य गवां षट्शतानि निष्कं च हारं चाश्वतरीरथं चादाय सत्वरं रैक्वं प्रतिचक्रमे । गत्वा चाभ्युवाद । है रैक्व, गवां षट्शतानीमानि निष्कश्च हारश्चायमश्वतरीरथः, एतदादत्स्व, अनुशाधि मां भगवन्निति । तमेवमुक्तवन्तं प्रति साटोपं च सस्पृहं चोवाच रैक्वः । अह हारेत्वा शूद्र, तवैव सह गोभिरस्त्विति । अहेति निपातः साटोपमामन्त्रणे । हारेण युक्ता इत्वा गन्त्री रथो हारेत्वा स गोभिः सह तवैवास्तु, किमेतन्मात्रेण मम धनेनाकल्पवर्तिनो गार्हस्थ्यस्य निर्वाहानुपयोगिनेति भावः । आहरेत्वेति तु पाठोऽनर्थकतया च गोभिः सहेत्यत्र प्रतिसम्बन्ध्यनुपादानेन चाचार्यैर्दूषितः । तदस्यामाख्यायिकायां शक्यः शूद्रशब्देन जानश्रुती राजन्योऽप्यवयवव्युत्पत्त्या वक्तुम् । स हि रैक्वः परोक्षज्ञतां चिख्यापयिषुरात्मनो जानश्रुतेः शूद्रेति शुचं सूचयामास । कथं पुनः शूद्रशब्देन शुगुत्पन्ना सूच्यत इति ।

उच्यते -

तदाद्रवणात् ।

तद्व्याचष्टे - शुचमभिदुद्राव जानश्रुतिः । शुचं प्राप्तवानित्यर्थः । शुचा वा जानश्रुतिः दुद्रुवे । शुचा प्राप्त इत्यर्थः । अथवा शुचा रैक्वं जानश्रुतिर्दुद्राव गतवान् । तस्मात्तदाद्रवणादिति तच्छब्देन शुग्वा जानश्रुतिर्वा रैक्वो वा परामृश्यत इत्युक्तम् ॥ ३४ ॥