ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥ ३४ ॥
यथा मनुष्याधिकारनियममपोद्य देवादीनामपि विद्यास्वधिकार उक्तः, तथैव द्विजात्यधिकारनियमापवादेन शूद्रस्याप्यधिकारः स्यादित्येतामाशङ्कां निवर्तयितुमिदमधिकरणमारभ्यतेतत्र शूद्रस्याप्यधिकारः स्यादिति तावत्प्राप्तम्; अर्थित्वसामर्थ्ययोः सम्भवात् , तस्माच्छूद्रो यज्ञेऽनवकॢप्तः’ (तै. सं. ७ । १ । १ । ६) इतिवत्शूद्रो विद्यायामनवकॢप्तइति निषेधाश्रवणात्यच्च कर्मस्वनधिकारकारणं शूद्रस्यानग्नित्वम् , तद्विद्यास्वधिकारस्यापवादकं लिङ्गम् ह्याहवनीयादिरहितेन विद्या वेदितुं शक्यतेभवति श्रौतं लिङ्गं शूद्राधिकारस्योपोद्बलकम्संवर्गविद्यायां हि जानश्रुतिं पौत्रायणं शुश्रूषुं शूद्रशब्देन परामृशतिअह हारे त्वा शूद्र तवैव सह गोभिरस्तु’ (छा. उ. ४ । २ । ३) इतिविदुरप्रभृतयश्च शूद्रयोनिप्रभवा अपि विशिष्टविज्ञानसम्पन्नाः स्मर्यन्तेतस्मादधिक्रियते शूद्रो विद्यास्वित्येवं प्राप्ते ब्रूमः

अपशूद्राधिकरणविषयाः

शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ।

अवान्तरसङ्गतिं कुर्वन्नधिकरणतात्पर्यमाह -

यथा मनुष्याधिकारेति ।

शङ्काबीजमाह -

तत्रेति ।

निर्मृष्टनिखिलदुःखानुषङ्गे शाश्वतिक आनन्दे कस्य नाम चेतनस्यार्थिता नास्ति, येनार्थिताया अभावाच्छूद्रो नाधिक्रियेत । नाप्यस्य ब्रह्मज्ञाने सामर्थ्याभावः । द्विविधं हि सामर्थ्यं निजं चागन्तुकं च । तत्र द्विजातीनामिव शूद्राणां श्रवणादिसामर्थ्यं निजमप्रतिहतम् । अध्ययनाभावादागन्तुकसामर्थ्याभावे सत्यनधिकार इति चेत् , हन्त, आधानाभावे सत्यग्न्यभावादग्निसाध्ये कर्मणि मा भूदधिकारः । नच ब्रह्मविद्यायामग्निः साधनमिति किमित्यनाहिताग्नयो नाधिक्रियन्ते । न चाध्ययनाभावात्तत्साधनायामनधिकारो ब्रह्मविद्यायामिति साम्प्रतम् । यतो युक्तं “यदाहवनीये जुहोति”(श.ब्रा. ३-५-३-३) इत्याहवनीयस्य होमाधिकरणतया विधानात्तद्रूपस्यालौकिकतयानारभ्याधीतवाक्यविहितादाधानादन्यतोऽनधिगमादाधानस्य च द्विजातिसम्बन्धितया विधानात्तत्साध्योऽग्निरलौकिको न शूद्रस्यास्तीति नाहवनीयादिसाध्ये कर्मणि शूद्रस्याधिकार इति । नच तथा ब्रह्मविद्यायामलौकिकमस्ति साधनं यच्छूद्रस्य न स्यात् । अध्ययननियम इति चेत् । न । विकल्पासहत्वात् । तदध्ययनं पुरुषार्थे वा नियम्येत , यथा धनार्जने प्रतिग्रहादि । क्रत्वर्थे वा, यथा ‘व्रीहीनवहन्ति’ इत्यवघातः । न तावत्क्रत्वर्थे । नहि “स्वाध्यायोऽध्येतव्यः” (तै.आ. २.१५.१) इति कञ्चित्क्रतुं प्रकृत्य पठ्यते, यथा दर्शपूर्णमासं प्रकृत्य ‘व्रीहीनवहन्ति’ इति । न चानारभ्याधीतमप्यव्यभिचरितक्रतुसम्बन्धितया क्रतुमुपस्थापयति, येन वाक्येनैव क्रतुना सम्बध्येताध्ययनम् । नहि यथा जुह्वादि अव्यभिचरितक्रतुसम्बद्धमेवं स्वाध्याय इति । तस्मान्नैव क्रत्वर्थे नियमः । नापि पुरुषार्थे । पुरुषेच्छाधीनप्रवृत्तिर्हि पुरुषार्थो भवति, यथा फलं तदुपायो वा । तदुपायेऽपि हि विधितः प्राक् सामान्यरूपा प्रवृत्तिः पुरुषेच्छानिबन्धनैव । इतिकर्तव्यतासु तु सामान्यतो विशेषतश्च प्रवृत्तिर्विधिपराधीनैव । नह्यनधिगतकरणभेद इतिकर्तव्यतासु घटते । तस्माद्विध्यधीनप्रवृत्तितयाङ्गानां क्रत्वर्थता । क्रतुरिति हि विधिविषयेण विधिं परामृशति विषयिणम् । तेनार्थ्यते विषयीक्रियत इति क्रत्वर्थः । न चाध्ययनं वा स्वाध्यायो वा तदर्थज्ञानं वा प्राग्विधेः पुरुषेच्छाधीनप्रवृत्तिः, येन पुरुषार्थः स्यात् । यदि चाध्ययनेनैवार्थावबोधरूपं नियम्येत ततो मानान्तरविरोधः । तद्रूपस्य विनाप्यध्ययनं पुस्तकादिपाठेनाप्यधिगमात् । तस्मात् “सुवर्णं भार्यं” इतिवदध्ययनादेव फलं कल्पनीयम् । तथा चाध्ययनविधेरनियामकत्वाच्छूद्रस्याध्ययनेन वा पुस्तकादिपाठेन वा सामर्थ्यमस्तीति सोऽपि ब्रह्मविद्यायामधिक्रियेत । मा भूद्वाध्ययनाभावात्सर्वत्र ब्रह्मविद्यायामधिकारः, संवर्गविद्यायां तु भविष्यति । “अह हारेत्वा शूद्र” इति शूद्रं सम्बोध्य तस्याः प्रवृत्तेः । न चैष शूद्रशब्दः कयाचिदवयवव्युत्पत्त्याऽशूद्रे वर्तनीयः, अवयवप्रसिद्धितः समुदायप्रसिद्धेरनपेक्षतया बलीयस्त्वात् । तस्माद्यथानधीयानस्येष्टौ निषादस्थपतेरधिकारो वचनसामर्थ्यादेवं संवर्गविद्यायां शूद्रस्याधिकारो भविष्यतीति प्राप्तम् ।