ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
भावं तु बादरायणोऽस्ति हि ॥ ३३ ॥
यदप्युक्तम्मन्त्रार्थवादयोरन्यार्थत्वान्न देवताविग्रहादिप्रकाशनसामर्थ्यमिति, अत्र ब्रूमःप्रत्ययाप्रत्ययौ हि सद्भावासद्भावयोः कारणम्; नान्यार्थत्वमनन्यार्थत्वं वातथा ह्यन्यार्थमपि प्रस्थितः पथि पतितं तृणपर्णाद्यस्तीत्येव प्रतिपद्यतेअत्राहविषम उपन्यासःतत्र हि तृणपर्णादिविषयं प्रत्यक्षं प्रवृत्तमस्ति, येन तदस्तित्वं प्रतिपद्यतेअत्र पुनर्विध्युद्देशैकवाक्यभावेन स्तुत्यर्थेऽर्थवादे पार्थगर्थ्येन वृत्तान्तविषया प्रवृत्तिः शक्याध्यवसातुम् हि महावाक्येऽर्थप्रत्यायकेऽवान्तरवाक्यस्य पृथक्प्रत्यायकत्वमस्तियथा सुरां पिबेत्इति नञ्वति वाक्ये पदत्रयसम्बन्धात्सुरापानप्रतिषेध एवैकोऽर्थोऽवगम्यते पुनः सुरां पिबेदिति पदद्वयसम्बन्धात्सुरापानविधिरपीतिअत्रोच्यतेविषम उपन्यासःयुक्तं यत्सुरापानप्रतिषेधे पदान्वयस्यैकत्वादवान्तरवाक्यार्थस्याग्रहणम्विध्युद्देशार्थवादयोस्त्वर्थवादस्थानि पदानि पृथगन्वयं वृत्तान्तविषयं प्रतिपद्य, अनन्तरं कैमर्थ्यवशेन कामं विधेः स्तावकत्वं प्रतिपद्यन्तेयथा हिवायव्यं श्वेतमालभेत भूतिकामःइत्यत्र विध्युद्देशवर्तिनां वायव्यादिपदानां विधिना सम्बन्धः, नैवम्वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति एवैनं भूतिं गमयतिइत्येषामर्थवादगतानां पदानाम् हि भवति, ‘वायुर्वा आलभेतइतिक्षेपिष्ठा देवता वा आलभेतइत्यादिवायुस्वभावसङ्कीर्तनेन तु अवान्तरमन्वयं प्रतिपद्य, एवं विशिष्टदैवत्यमिदं कर्मेति विधिं स्तुवन्तितद्यत्र सोऽवान्तरवाक्यार्थः प्रमाणान्तरगोचरो भवति, तत्र तदनुवादेनार्थवादः प्रवर्ततेयत्र प्रमाणान्तरविरुद्धः, तत्र गुणवादेनयत्र तु तदुभयं नास्ति, तत्र किं प्रमाणान्तराभावाद्गुणवादः स्यात् , आहोस्त्वित्प्रमाणान्तराविरोधाद्विद्यमानवाद इतिप्रतीतिशरणैर्विद्यमानवाद आश्रयणीयः, गुणवादःएतेन मन्त्रो व्याख्यातःअपि विधिभिरेवेन्द्रादिदैवत्यानि हवींषि चोदयद्भिरपेक्षितमिन्द्रादीनां स्वरूपम् हि स्वरूपरहिता इन्द्रादयश्चेतस्यारोपयितुं शक्यन्ते चेतस्यनारूढायै तस्यै तस्यै देवतायै हविः प्रदातुं शक्यतेश्रावयति यस्यै देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषट्करिष्यन्’ (ऐ. ब्रा. ३ । ८ । १) इति; शब्दमात्रमर्थस्वरूपं सम्भवति, शब्दार्थयोर्भेदात्तत्र यादृशं मन्त्रार्थवादयोरिन्द्रादीनां स्वरूपमवगतं तत्तादृशं शब्दप्रमाणकेन प्रत्याख्यातुं युक्तम्इतिहासपुराणमपि व्याख्यातेन मार्गेण सम्भवन्मन्त्रार्थवादमूलकत्वात् प्रभवति देवताविग्रहादि साधयितुम्प्रत्यक्षादिमूलमपि सम्भवतिभवति ह्यस्माकमप्रत्यक्षमपि चिरंतनानां प्रत्यक्षम्तथा व्यासादयो देवादिभिः प्रत्यक्षं व्यवहरन्तीति स्मर्यतेयस्तु ब्रूयात्इदानींतनानामिव पूर्वेषामपि नास्ति देवादिभिर्व्यवहर्तुं सामर्थ्यमिति, जगद्वैचित्र्यं प्रतिषेधेत्इदानीमिव नान्यदापि सार्वभौमः क्षत्रियोऽस्तीति ब्रूयात्ततश्च राजसूयादिचोदना उपरुन्ध्यात्इदानीमिव कालान्तरेऽप्यव्यवस्थितप्रायान्वर्णाश्रमधर्मान्प्रतिजानीत, ततश्च व्यवस्थाविधायि शास्त्रमनर्थकं कुर्यात्तस्माद्धर्मोत्कर्षवशाच्चिरंतना देवादिभिः प्रत्यक्षं व्यवजह्रुरिति श्लिष्यतेअपि स्मरन्तिस्वाध्यायादिष्टदेवतासम्प्रयोगः’ (यो. सू. २ । ४४) इत्यादियोगोऽप्यणिमाद्यैश्वर्यप्राप्तिफलकः स्मर्यमाणो शक्यते साहसमात्रेण प्रत्याख्यातुम्श्रुतिश्च योगमाहात्म्यं प्रख्यापयतिपृथिव्यप्तेजोऽनिलखे समुत्थिते पञ्चात्मके योगगुणे प्रवृत्ते तस्य रोगो जरा मृत्युः प्राप्तस्य योगाग्निमयं शरीरम्’ (श्वे. उ. २ । १२) इतिऋषीणामपि मन्त्रब्राह्मणदर्शिनां सामर्थ्यं नास्मदीयेन सामर्थ्येनोपमातुं युक्तम्तस्मात्समूलमितिहासपुराणम्लोकप्रसिद्धिरपि सति सम्भवे निरालम्बनाध्यवसातुं युक्तातस्मादुपपन्नो मन्त्रादिभ्यो देवादीनां विग्रहवत्त्वाद्यवगमःततश्चार्थित्वादिसम्भवादुपपन्नो देवादीनामपि ब्रह्मविद्यायामधिकारःक्रममुक्तिदर्शनान्यप्येवमेवोपपद्यन्ते ॥ ३३ ॥

पूर्वपक्षमनुभाषते -

यदप्युक्तमिति ।

एकदेशिमतेन तावत्परिहरति -

अत्र ब्रूम इति ।

तदेतत्पूर्वपक्षिणमुत्थाप्य दूषयति -

अत्राह

पूर्वपक्षी । शाब्दी खल्वियं गतिः, यत्तात्पर्याधीनवृत्तित्वं नाम । नह्यन्यपरः शब्दोऽन्यत्र प्रमाणं भवितुमर्हति । नहि श्वित्रिनिर्णेजनपरं श्वेतो धावतीति वाक्यमितः सारमेयगमनं गमयितुमर्हति । नच नञ्वति महावाक्येऽवान्तरवाक्यार्थो विधिरूपः शक्योऽवगन्तुम् । नच प्रत्ययमात्रात्सोऽप्यर्थोऽस्य भवति, तत्प्रत्ययस्य भ्रान्तित्वात् । न पुनः प्रत्यक्षादीनामियं गतिः । नह्युदकाहरणार्थिना घटदर्शनायोन्मीलितं चक्षुर्घटपटौ वा पटं वा केवलं नोपलभते ।

तदेवमेकदेशिनि पूर्वपक्षिणा दूषिते परमसिद्धान्तवाद्याह -

अत्रोच्यते विषम उपन्यास इति ।

अयमभिसन्धिः - लोके विशिष्टार्थप्रत्यायनाय पदानि प्रयुक्तानि तदन्तरेण न स्वार्थमात्रस्मारणे पर्यवस्यन्ति । नहि स्वार्थस्मारणमात्राय लोके पदानां प्रयोगो दृष्टपूर्वः । वाक्यार्थे तु दृश्यते । न चैतान्यस्मारितस्वार्थानि साक्षाद्वाक्यार्थं प्रत्याययितुमीशते इति स्वार्थस्मारणं वाक्यार्थमितयेऽवान्तरव्यापारः कल्पितः पदानाम् । नच यदर्थं यत्तत्तेन विना पर्यवस्यतीति न स्वार्थमात्रभिधाने पर्यवसानं पदानाम् । नच नञ्वति वाक्ये विधानपर्यवसानम् । तथा सति नञ्पदमनर्थकं स्यात् । यथाहुः - “साक्षाद्यद्यपि कुर्वन्ति पदार्थप्रतिपादनम् । वर्णास्तथापि नैतस्मिन्पर्यवस्यन्ति निष्फले ॥ वाक्यार्थमितये तेषां प्रवृत्तौ नान्तरीयम् । पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम्” ॥ इति । सेयमेकस्मिन्वाक्ये गतिः । यत्र तु वाक्यस्यैकस्य वाक्यान्तरेण सम्बन्धस्तत्र लोकानुसारतो भूतार्थव्युत्पत्तौ च सिद्धायामेकैकस्य वाक्यस्य तत्तद्विशिष्टार्थप्रत्यायनेन पर्यवसितवृत्तिनः पश्चात्कुतश्चिद्धेतोः प्रयोजनान्तरापेक्षायामन्वयः कल्प्यते । यथा “वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति वायव्यं श्वेतमालभेत”(कृ.य. २.१.१) इत्यत्र । इह हि यदि न स्वाध्यायाध्ययनविधिः स्वाध्यायशब्दवाच्यं वेदराशिं पुरुषार्थतामनेष्यत्ततो भूतार्थमात्रपर्यवसिता नार्थवादा विध्युद्देशेनैकवाक्यतामागमिष्यन् । तस्मात् स्वाध्यायविधिवशात्कैमर्थ्याकाङ्क्षायां वृत्तान्तादिगोचराः सन्तस्तत्प्रत्यायनद्वारेण विधेयप्राशस्त्यं लक्षयन्ति, न पुनरविवक्षितस्वार्था एव तल्लक्षणे प्रभवन्ति, तथा सति लक्षणैव न भवेत् । अभिधेयाविनाभावस्य तद्बीजस्याभावात् । अत एव गङ्गायां घोष इत्यत्र गङ्गाशब्दः स्वार्थसम्बद्धमेव तीरं लक्षयति न तु समुद्रतीरं, तत्कस्य हेतोः, स्वार्थप्रत्यासत्त्यभावात् । न चैतत्सर्वं स्वार्थाविवक्षायां कल्पते । अत एव यत्र प्रमाणान्तरविरुद्धार्था अर्थवादा दृश्यन्ते, यथा - ‘आदित्यो वै यूपः’ ‘यजमानः प्रस्तरः’ इत्येवमादयः, तत्र यथा प्रमाणान्तराविरोधः, यथा च स्तुत्यर्थता, तदुभयसिद्ध्यर्थं “गुणवादस्तु”(जै.सू. १।२।१० ) इति च “तत्सिद्धिः” इति चासूत्रयज्जैमिनिः । तस्माद्यत्र सोऽर्थोऽर्थवादानां प्रमाणान्तरविरुद्धस्तत्र गुणवादेन प्राशस्त्यलक्षणेति लक्षितलक्षणा । यत्र तु प्रमाणान्तरसंवादस्तत्र प्रमाणान्तरादिवार्थवादादपि सोऽर्थः प्रसिध्यति, द्वयोः परस्परानपेक्षयोः प्रत्यक्षानुमानयोरिवैकत्रार्थे प्रवृत्तेः । प्रमात्रपेक्षया त्वनुवादकत्वम् । प्रमाता ह्यव्युत्पन्नः प्रथमं यथा प्रत्यक्षादिभ्योऽर्थमवगच्छति न तथाम्नायतः, तत्र व्युत्पत्त्याद्यपेक्षत्वात् । नतु प्रमाणापेक्षया, द्वयोः स्वार्थेऽनपेक्षत्वादित्युक्तम् । नन्वेवं मानान्तरविरोधेऽपि कस्माद्गुणवादो भवति, यावता शब्दविरोधे मानान्तरमेव कस्मान्न बाध्यते, वेदान्तैरिवाद्वैतविषयैः प्रत्यक्षादयः प्रपञ्चगोचराः, कस्माद्वाऽर्थवादवद्वेदान्ता अपि गुणवादेन न नीयन्ते । अत्रोच्यते - लोकानुसारतो द्विविधो हि विषयः शब्दानाम् , द्वारतश्च तात्पर्यतश्च । यथैकस्मिन्वाक्ये पदानां पदार्था द्वारतो वाक्यार्थश्च तात्पर्यतो विषयः एवं वाक्यद्वयैकवाक्यतायामपि । यथेयं देवदत्तीया गौः क्रेतव्येत्येकं वाक्यम् , एषा बहुक्षीरेत्यपरं तदस्य बहुक्षीरत्वप्रतिपादनं द्वारम् । तात्पर्यं तु क्रेतव्येति वाक्यान्तरार्थे । तत्र यद्द्वारतस्तत्प्रमाणान्तरविरोधेऽन्यथा नीयते । यथा विषं भक्षयेति वाक्यं मा अस्य गृहे भुङ्क्ष्वेति वाक्यान्तरार्थपरं सत् । यत्र तु तात्पर्यं तत्र मानान्तरविरोधे पौरुषेयप्रमाणमेव भवति । वेदान्तास्तु पौर्वापर्यपर्यालोचनया निरस्तसमस्तभेदप्रपञ्चब्रह्मप्रतिपादनपरा अपौरुषेयता स्वतःसिद्धतात्त्विकप्रमाणभावाः सन्तस्त्तात्त्विकप्रमाणभावात्प्रत्यक्षादीनि प्रच्याव्य सांव्यवहारिके तस्मिन्व्यवस्थापयन्ति । न च ‘आदित्यो वै यूपः’ इति वाक्यमादित्यस्य यूपत्वप्रतिपादनपरमपि तु यूपस्तुतिपरम् । तस्मात्प्रमाणान्तरविरोधे द्वारीभूतो विषयो गुणवादेन नीयते । यत्र तु प्रमाणान्तरं विरोधकं नास्ति, यथा देवताविग्रहादौ, तत्र द्वारतोऽपि विषयः प्रतीयमानो न शक्यस्त्यक्तुम् । नच गुणवादेन नेतुं, को हि मुख्ये सम्भवति गौणमाश्रयेदतिप्रसङ्गात् । तथा सत्यनधिगतं विग्रहादि प्रतिपादयत् वाक्यं भिद्येतेति चेत् अद्धा । भिन्नमेवैतद्वाक्यम् । तथा सति तात्पर्यभेदोऽपीति चेत् । न । द्वारतोऽपि तदवगतौ तात्पर्यान्तरकल्पनाऽयोगात् । नच यस्य यत्र न तात्पर्यं तस्य तत्राप्रामाण्यं, तथा सति विशिष्टपरं वाक्यं विशेषणेष्वप्रमाणमिति विशिष्टपरमपि न स्यात् , विशेषणाविषयत्वात् । विशिष्टविषयत्वेन तु तदाक्षेपे परस्पराश्रयत्वम् । आक्षेपाद्विशेषणप्रतिपत्तौ सत्यां विशिष्टविषयत्वं विशिष्टविषयत्वाच्च तदाक्षेपः । तस्माद्विशिष्टप्रत्ययपरेभ्योऽपि विशेषणानि प्रतीयमानानि तस्यैव वाक्यस्य विषयत्वेनानिच्छताप्यभ्युपेयानि यथा, तद्यान्यपरेभ्योऽप्यर्थवादवाक्येभ्यो देवताविग्रहादयः प्रतीयमाना असति प्रमाणान्तरविरोधे न युक्तास्त्यक्तुम् । नहि मुख्यार्थसम्भवे गुणवादो युज्यते । नच भूतार्थमप्यपौरुषेयं वचो मानान्तरापेक्षं स्वार्थे, येन मानान्तरासम्भवे भवेदप्रमाणमित्युक्तम् । स्यादेतत् । तात्पर्यैक्येऽपि यदि वाक्यभेदः, कथं तर्ह्यर्थैकत्वादेकं वाक्यम् । न । तत्र तत्र यथास्वं तत्तत्पदार्थविशिष्टैकपदार्थप्रतीतिपर्यवसानसम्भवात् । स तु पदार्थान्तरविशिष्टः पदार्थ एकः क्वचिद्द्वारभूतः क्वचिद्द्वारीत्येतावान् विशेषः । नन्वेवं सति ओदनं भुक्त्वा ग्रामं गच्छतीत्यत्रापि वाक्यभेदप्रसङ्गः । अन्यो हि संसर्ग ओदनं भुक्त्वेति, अन्यस्तु ग्रामं गच्छतीति । न । एकत्र प्रतीतेरपर्यवसानात् । भुक्त्वेति हि समानकर्तृकता पूर्वकालता च प्रतीयते । न चेयं प्रतीतिरपरकालक्रियान्तरप्रत्ययमन्तरेण पर्यवस्यति । तस्माद्यावति पदसमूहे पदाहिताः पदार्थस्मृतयः पर्यवसन्ति तावदेकं वाक्यम् । अर्थवादवाक्ये चैताः पर्यवस्यन्ति विनैव विधिवाक्यं विशिष्टार्थप्रतीतेः । न च द्वाभ्यां द्वाभ्यां पदाभ्यां विशिष्टार्थप्रत्ययपर्यवसानात् पञ्चषट्पदवति वाक्ये एकस्मिन्नानात्वप्रसङ्गः । नानात्वेऽपि विशेषणानां विशेष्यस्यैकत्वात् , तस्य च सकृच्चछ्रुतस्य प्रधानभूतस्य गुणभूतविशेषणानुरोधेनावर्तनायोगात् । प्रधानभेदे तु वाक्यभेद एव । तस्माद्विधिवाक्यादर्थवादवाक्यमन्यदिति वाक्ययोरेव स्वस्ववाक्यार्थप्रत्ययावसितव्यापारयोः पश्चात्कुतश्चिदपेक्षायां परस्परान्वय इति सिद्धम् ।

अपि च विधिभिरेवेन्द्रादिदैवत्यानीति ।

देवतामुद्दिश्य हविरवमृश्य च तद्विषयस्वत्वत्याग इति यागशरीरम् । नच चेतस्यनालिखिता देवतोद्देष्टुं शक्या । नच रूपरहिता चेतसि शक्यत आलेखितुमिति यागविधिनैव तद्रूपापेक्षिणा यादृशमन्यपरेभ्योऽपि मन्त्रार्थवादेभ्यस्तद्रूपमवगतं तदभ्युपेयते, रूपान्तरकल्पनायां मानाभावात् । मन्त्रार्थवादयोरत्यन्तपरोक्षवृत्तिप्रसङ्गाच्च । यथा हि “व्रात्यो व्रात्यस्तोमेन यजते” इति व्रात्यस्वरूपापेक्षायां यस्य पिता पितामहो वा सोमं न पिबेत् स व्रात्य इति व्रात्यस्वरूपमवगतं व्रात्यस्तोमविध्यपेक्षितं सद्विधिप्रमाणकं भवति, यथा वा स्वर्गस्य रूपमलौकिकं ‘स्वर्गकामो यजेत’ इति विधिनापेक्षितं सदर्थवादतोऽवगम्यमानं विधिप्रमाणकम् , तथा देवतारूपमपि । ननूद्देशो रूपज्ञानमपेक्षते न पुना रूपसत्तामपि, देवतायाः समारोपेणापि च रूपज्ञानमुपपद्यत इति समारोपितमेव रूपं देवताया मन्त्रार्थवादैरुच्यते । सत्यं, रूपज्ञानमपेक्षते । तच्चान्यतोऽसम्भवान्मन्त्रार्थवादेभ्य एव । तस्य तु रूपस्यासति बाधकेऽनुभवारूढं तथाभावं परित्यज्यान्यथात्वमननुभूयमानमसाम्प्रतं कल्पयितुम् । तस्माद्विध्यपेक्षितमन्त्रार्थवादैरन्यपरैरपि देवतारूपं बुद्धावुपनिधीयमानं विधिप्रमाणकमेवेति युक्तम् ।

स्यादेतत् । विध्यपेक्षायामन्यपरादपि वाक्यादवगतोऽर्थः स्वीक्रियते, तदपेक्षैव तु नास्ति, शब्दरूपस्य देवताभावात् , तस्य च मानान्तरवेद्यत्वादित्यत आह -

न च शब्दमात्रमिति ।

न केवलं - मन्त्रार्थवादतो विग्रहादिसिद्धिः, अपि तु इतिहासपुराणलोकस्मरणेभ्यो मन्त्रार्थवादमूलेभ्यो वा प्रत्यक्षादमूलेभ्यो वेत्याह -

इतिहासेति । श्लिष्यते

युज्यते । निगदमात्रव्याख्यातमन्यत् । तदेवं मन्त्रार्थवादादिसिद्धे देवताविग्रहादौ गुर्वादिपूजावद्देवतापूजात्मको यागो देवताप्रसादादिद्वारेण सफलोऽवकल्पते । अचेतनस्य तु पूजामप्रतिपद्यमानस्य तदनुपपत्तिः । न चैवं यज्ञकर्मणो देवतां प्रति गुणभावाद्देवतातः फलोत्पादे यागभावनायाः श्रुतं फलवत्त्वं यागस्य च तां प्रति तत्फलांशं वा प्रति श्रुतं करणत्वं हातव्यम् । यागभावनाया एव हि फलवत्या यागलक्षणस्वकरणावान्तरव्यापारत्वाद्देवताभोजनप्रसादादीनाम् , कृषिकर्मण इव तत्तदवान्तरव्यापारस्य सस्याधिगमसाधनत्वम् । आग्नेयादीनामिवोत्पत्तिपरमापूर्वावान्तरव्यापाराणां भवन्मते स्वर्गसाधनत्वम् । तस्मात्कर्मणोऽपूर्वावान्तरव्यापारस्य वा देवताप्रसादावान्तरव्यापारस्य वा फलवत्त्वात् प्रधानत्वमुभयस्मिन्नपि पक्षे समानं, नतु देवताया विग्रहादिमत्याः प्राधान्यमिति न धर्ममीमांसायाः सूत्रम् - “अपि वा शब्दपूर्वत्वाद्यज्ञकर्म प्रधानं गुणत्वे देवताश्रुतिः”(जै.सू. ९.१.९) इति विरुध्यते । तस्मात्सिद्धो देवतानां प्रायेण ब्रह्मविद्यास्वधिकार इति ॥ ३३ ॥