ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
भावं तु बादरायणोऽस्ति हि ॥ ३३ ॥
यदप्युक्तम्ज्योतिषि भावाच्चइति, अत्र ब्रूमःज्योतिरादिविषया अपि आदित्यादयो देवतावचनाः शब्दाश्चेतनावन्तमैश्वर्याद्युपेतं तं तं देवतात्मानं समर्पयन्ति, मन्त्रार्थवादादिषु तथा व्यवहारात्अस्ति ह्यैश्वर्ययोगाद्देवतानां ज्योतिराद्यात्मभिश्चावस्थातुं यथेष्टं तं तं विग्रहं ग्रहीतुं सामर्थ्यम्तथा हि श्रूयते सुब्रह्मण्यार्थवादेमेधातिथेर्मेषेतिमेधातिथिं काण्वायनमिन्द्रो मेषो भूत्वा जहार’ (षड्विंश. ब्रा. १ । १) इतिस्मर्यते — ‘आदित्यः पुरुषो भूत्वा कुन्तीमुपजगाम इतिमृदादिष्वपि चेतना अधिष्ठातारोऽभ्युपगम्यन्ते; ‘मृदब्रवीत्’ ‘आपोऽब्रुवन्इत्यादिदर्शनात्ज्योतिरादेस्तु भूतधातोरादित्यादिष्वचेतनत्वमभ्युपगम्यतेचेतनास्त्वधिष्ठातारो देवतात्मानो मन्त्रार्थवादादिषु व्यवहारादित्युक्तम्

मन्त्रार्थवादादिव्यवहारादिति ।

आदिग्रहणेनेतिहासपुराणधर्मशास्त्राणि गृह्यन्ते । मन्त्रादीनां व्यवहारः प्रवृत्तिस्तस्य दर्शनादिति ।