संस्कारपरामर्शात्तदभावाभिलापाच्च ।
न केवलमुपनीताध्ययनविधिपरामर्शेन न शूद्रस्याधिकारः किन्तु तेषु तेषु विद्योपदेशप्रदेषूपनयनसंस्कारपरामर्शात् शूद्रस्य तदभावाभिधानाद्ब्रह्मविद्यायामनधिकार इति ।
नन्वनुपनीतस्यापि ब्रह्मोपदेशः श्रूयते - “तान्हानुपनीयैव” (छा. उ. ५ । ११ । ७) इति । तथा शूद्रस्यानुपनीतस्यैवाधिकारो भवीष्यतीत्यत आह -
तान्हानुपनीयैवेत्यपि प्रदर्शितैवोपनयनप्राप्तिः ।
प्राप्तिपूर्वकत्वात्प्रतिषेधस्य येषामुपनयनं प्राप्तं तेषामेव तन्निषिध्यते । तच्च द्विजातीनामिति द्विजातय एव निषिद्धोपनयना अधिक्रियन्ते न शूद्र इति ॥ ३६ ॥