ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
तदभावनिर्धारणे च प्रवृत्तेः ॥ ३७ ॥
इतश्च शूद्रस्याधिकारः; यत्सत्यवचनेन शूद्रत्वाभावे निर्धारिते जाबालं गौतम उपनेतुमनुशासितुं प्रववृतेनैतदब्राह्मणो विवक्तुमर्हति समिधं सोम्याहरोप त्वा नेष्ये सत्यादगाः’ (छा. उ. ४ । ४ । ५) इति श्रुतिलिङ्गात् ॥ ३७ ॥

तदभावनिर्धारणे च प्रवृत्तेः ।

सत्यकामो ह वै जाबालः प्रमीतपितृकः स्वां मातरं जबालां पप्रच्छ, अहमाचार्यकुले ब्रह्मचर्यं चरिष्यामि, तद्ब्रवीतु भवती किङ्गोत्रोऽहमिति । साब्रवीत् । त्वज्जनकपरिचरणपरतया नाहमज्ञासिषं गोत्रं तवेति । स त्वाचार्यं गौतममुपससाद । उपसद्योवाच, हे भगवन् , ब्रह्मचर्यमुपेयां त्वयीति । स होवाच, नाविज्ञातगोत्र उपनीयत इति किङ्गोत्रोऽसीति । अथोवाच सत्यकामो नाहं वेद स्वं गोत्रं, स्वां मातरं जबालामपृच्छं, सापि न वेदेति । तदुपश्रुत्याभ्यधाद्गौतमः, नाद्विजन्मन आर्जवयुक्तमीदृशं वचः, तेनास्मिन्न शूद्रत्वसम्भावनास्तीति त्वां द्विजातिजन्मानमुपनेष्य इत्युपनेतुमनुशासितुं च जाबालं गौतमः प्रवृत्तः । तेनापि शूद्रस्य नाधिकार इति विज्ञायते ।

न सत्यादगा इति ।

न सत्यमतिक्रान्तवानसीति ॥ ३७ ॥