ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च ॥ ३८ ॥
इतश्च शूद्रस्याधिकारः; यदस्य स्मृतेः श्रवणाध्ययनार्थप्रतिषेधो भवतिवेदश्रवणप्रतिषेधः, वेदाध्ययनप्रतिषेधः, तदर्थज्ञानानुष्ठानयोश्च प्रतिषेधः शूद्रस्य स्मर्यतेश्रवणप्रतिषेधस्तावत् — ‘अथ हास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रतिपूरणम्इति; ‘पद्यु वा एतच्छ्मशानं यच्छूद्रस्तस्माच्छूद्रसमीपे नाध्येतव्यम्इति अत एवाध्ययनप्रतिषेधःयस्य हि समीपेऽपि नाध्येतव्यं भवति, कथमश्रुतमधीयीतभवति वेदोच्चारणे जिह्वाच्छेदः, धारणे शरीरभेद’(गौ॰ध॰सू॰ २-३-४) इतिअत एव चार्थादर्थज्ञानानुष्ठानयोः प्रतिषेधो भवति शूद्राय मतिं दद्यात्’(म॰स्मृ॰ ४-८०) इति, द्विजातीनामध्ययनमिज्या दानम्’(गौ॰ध॰सू॰ २-१-१) इति येषां पुनः पूर्वकृतसंस्कारवशाद्विदुरधर्मव्याधप्रभृतीनां ज्ञानोत्पत्तिः, तेषां शक्यते फलप्राप्तिः प्रतिषेद्धुम् , ज्ञानस्यैकान्तिकफलत्वात्श्रावयेच्चतुरो वर्णान्’(म॰भा॰ १२-३२७-४९) इति चेतिहासपुराणाधिगमे चातुर्वर्ण्यस्याधिकारस्मरणात्वेदपूर्वकस्तु नास्त्यधिकारः शूद्राणामिति स्थितम् ॥ ३८ ॥

श्रवणाध्ययनार्थप्रतिषेधात्समृतेश्च ।

निगदव्याख्यानेन भाष्येण व्याख्यातम् । अतिरोहितार्थमन्यत् ॥ ३८ ॥