ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
कम्पनात् ॥ ३९ ॥
अवसितः प्रासङ्गिकोऽधिकारविचारःप्रकृतामेवेदानीं वाक्यार्थविचारणां प्रवर्तयिष्यामःयदिदं किञ्च जगत्सर्वं प्राण एजति निःसृतम्महद्भयं वज्रमुद्यतं एतद्विदुरमृतास्ते भवन्ति’ (क. उ. २ । ३ । २) इति एतद्वाक्यम्एजृ कम्पनेइति धात्वर्थानुगमाल्लक्षितम्अस्मिन्वाक्ये सर्वमिदं जगत् प्राणाश्रयं स्पन्दते, महच्च किञ्चिद्भयकारणं वज्रशब्दितमुद्यतम् , तद्विज्ञानाच्चामृतत्वप्राप्तिरिति श्रूयतेतत्र, कोऽसौ प्राणः, किं तद्भयानकं वज्रम् , इत्यप्रतिपत्तेर्विचारे क्रियमाणे, प्राप्तं तावत्प्रसिद्धेः पञ्चवृत्तिर्वायुः प्राण इतिप्रसिद्धेरेव चाशनिर्वज्रं स्यात्वायोश्चेदं माहात्म्यं सङ्कीर्त्यतेकथम् ? सर्वमिदं जगत् पञ्चवृत्तौ वायौ प्राणशब्दिते प्रतिष्ठाय एजतिवायुनिमित्तमेव महद्भयानकं वज्रमुद्यम्यतेवायौ हि पर्जन्यभावेन विवर्तमाने विद्युत्स्तनयित्नुवृष्ट्यशनयो विवर्तन्त इत्याचक्षतेवायुविज्ञानादेव चेदममृतत्वम्तथा हि श्रुत्यन्तरम् — ‘वायुरेव व्यष्टिर्वायुः समष्टिरप पुनर्मृत्युं जयति एवं वेदइतितस्माद्वायुरयमिह प्रतिपत्तव्यः इत्येवं प्राप्ते ब्रूमः

कम्पनाधिकरणविषयाः

कम्पनात् ।

प्राणवज्रश्रुतिबलाद्वाक्यं प्रकरणं च भङ्क्त्वा वायुः पञ्चवृत्तिराध्यात्मिको बाह्यश्चात्र प्रतिपाद्यः । तथाहि - प्राणशब्दो मुख्यो वायावाध्यात्मिके, वज्रशब्दश्चाशनौ । अशनिश्च वायुपरिणामः । वायुरेव हि बाह्यो धूमज्योतिःसलिलसंवलितः पर्जन्यभावेन परिणतो विद्युत्स्तनयित्नुवृष्ट्यशनिभावेन विवर्तते । यद्यपि च सर्वं जगदिति सवायुकं प्रतीयते तथापि सर्वशब्द आपेक्षिकोऽपि न स्वाभिधेयं जहाति किन्तु सङ्कुचद्वृत्तिर्भवति । प्राणवज्रशब्दौ तु ब्रह्मविषयत्वे स्वार्थमेव त्यजतः । तस्मात् स्वार्थत्यागाद्वरं वृत्तिसङ्कोचः, स्वार्थलेशावस्थानात् । अमृतशब्दोऽपि मरणाभाववचनो न सार्वकालिकं तदभावं ब्रूते, ज्योतिर्जीवितयापि तदुपपत्तेः । यथा अमृता देवा इति । तस्मात्प्राणवज्रश्रुत्यनुरोधाद्वायुरेवात्र विवक्षितो न ब्रह्मेति प्राप्तम् ।

एवं प्राप्त उच्यते -

कम्पनात् ।

सवायुकस्य जगतः कम्पनात् , परमात्मैव शब्दात्प्रमित इति मण्डूकप्लुत्यानुषज्जते । ब्रह्मणो हि बिभ्यदेतज्जगत्कृत्स्नं स्वव्यापारे नियमेन प्रवर्तते न तु मर्यादामतिवर्तते ।